This page has not been fully proofread.

98
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
[ जडद्रव्य
 
हाराव लौकिकानां तत्तदधिष्ठानमात्रविषयाः । मनसा जाना-
मीत्युक्तिरपि धीविशेषविषया । अहमिति प्रत्यक्षं तु न महत्तत्व-
विषयं अहङ्काराविषयं वा; प्रत्यगात्मन एवाहमिति भानात् ।
आनन्ददायिनी
 
रजसश्चक्षुरगम्यत्वं ; तस्यैव राइयवस्थस्य चक्षुर्गम्यत्वं दृष्टमित्यर्थः ।
तथाच यदवस्थाविशिष्टस्य शास्त्रप्रतिपाद्यत्वं तदवस्थस्य न प्रत्यक्ष-
त्वमिति भावः । ननु यत्र प्रत्यक्षमधिष्ठानं नास्ति तत्र कथमि-
त्यत्राह—मनसेति । संभावनारूपधीविशेषविषय इत्यर्थः । ननु अह-
मिति महत्तत्वस्य अहङ्कारस्य च प्रत्यक्षत्वात् कथं तयोः शास्त्र -
वेद्यत्वमित्यत्राह — अहमिति । ननु साङ्ख्यैः ' अध्यवसायो
बुद्धि:' इत्यत्र बुध्यते अध्यवस्यतेऽनेनेति व्युत्पत्त्या महत्तत्व-
परिणामतयाऽध्यवसायस्य तन्निष्ठत्वोक्तेरध्यवसायाश्रयतया प्रतीयमानोऽ-
हमर्थो महत्तत्वमेव । तथा ' अभिमानोऽहङ्कारः ' इत्यत्र अभिम-
न्यतेऽनेनेति व्युत्पत्त्या तिरस्कारात्मकबुद्धेर्वाऽहङ्कारधर्मत्वात्तदाश्रयतया
 
भावप्रकाश:
 
असन्निकृष्टवाचा च द्वयमेव जिहासितम् ।
ताद्रूप्येण परिच्छित्तिस्तद्विपर्ययतोऽपि वा ॥
 
इति । '*धीविशेषः —— संस्कारजन्यं ज्ञानं । तार्द्ध सविकल्पक-
स्मरणादि । ननु अतीन्द्रियविषयकस्य योगिप्रत्यक्षस्य सिद्धान्तेs-
प्यङ्गीकारेण नाध्यक्षणेति मूलमयोग्यामिति चेत् न ; योगिप्रत्यक्षस्या-
गमैकसिद्धस्य सिद्धान्तेऽङ्गीकारेण तत्र श्रुतावेव साधकत्वपर्यवसा-
नस्य ' श्रुत्यालम्बे तु सैव प्रसजति शरणम्' इति (बुद्धिसरे ३६)
वक्ष्यमाणत्वेनानुपपत्त्यभावात् ।