2025-01-21 07:36:05 by ambuda-bot
This page has not been fully proofread.
संस्कृ
त्रिगुणपरीक्षायां प्रकृत्यादेरचाक्षुषत्वम्
97
तत्वमुक्ताकलापः
नाध्यक्षेणाप्रतीतेः
सर्वार्थसिद्धिः
तच्च
शब्दाभिप्रायः । ननु प्रत्यक्षसिद्धं पृथिव्यादितत्वं ।
कार्यावस्थं प्रकृतिद्रव्यमेवेति बूथ । तथा सति कारणाव-
स्थमपि तदेवेति कथं तस्याप्रत्यक्षत्वं ? अश्रुतागमैः अप्र-
तिसंहितव्याप्तिभिश्व बालादिभिरपि चक्षुरादिकरणानि व्यव-
ह्रियन्ते । अतः कथं तेषामागमिकत्वं ? तत्राह —–नाध्यक्षे-
णेति । प्रत्यक्षविरुद्धेयं प्रत्यभिज्ञेत्याह---अप्रतीतेरिति । न हि
प्रकृत्याद्यवस्थस्य प्रत्यक्षतः प्रतीतिरस्ति । अवस्थाभेदैरेक-
स्यैव प्रत्यक्षत्वाप्रत्यक्षत्वे बहुलं लोकदृष्टे । चक्षुरादिव्यव-
आनन्ददायिनी
रायणस्यानपेक्षत्वात्' इति न्यायादिति भावः । ननु नाध्यक्षणेति
मूलमसंगतं अभागिप्रतिषेधापत्तेरित्याशङ्कयावतारयति — नन्विति ।
नन्विन्द्रियाणामतीन्द्रियत्वात्तद्विषयं शास्त्रमर्थवादित्याह - अश्रुतागमैरिति ।
अप्रतिसंहितेति । यथा धर्माधर्मविषयकवैदिकव्यवहारात् व्यवहार-
विषयत्वेन व्यवहर्तव्यविशेषविषयमनुमीयते तद्वदपि न व्यवहार्यमनु-
माय व्यवहार इत्यर्थः । ननु प्रत्यक्षसिद्धत्वं भवतु को दोष
इत्यत्राह — अतः कथमिति । प्रत्यक्षसिद्धे शास्त्रस्य तात्पर्याभावा-
दिति भावः । ननु पृथिव्यादीनामपि प्रत्यक्षत्वं न स्यात् तद-
भेदात् इत्यत्राह —— अवस्थेति । असंयुक्तावस्यस्य केशस्य दूरे न
प्रत्यक्षता । तस्यैव सजातीययुक्तावस्थस्य प्रत्यक्षता । प्रत्येकस्य
SARVARTHA.
7