This page has not been fully proofread.

सरः]
 
त्रिगुणपरीक्षायां उदयनमतनिरासः
 
95
 
सर्वार्थसिद्धिः
 
तदेतदपष्ठु । नियतक्रमानुपूर्वप्रकृतिविकृति परम्परोपदेशात् ।
 
आनन्ददायिनी
 
नियतक्रमेति प्रकृतिविकृतिभावस्य द्रव्यधर्मत्वादिति भावः । ननु न
प्रकृतेर्महानिति प्रकृतिशब्देनोपादानमुच्यते ; अपि तु निमित्तमात्र-
 
भावप्रकाशः
 
--
 
इति कुसुमाञ्जलिप्रथमस्तबकान्तिमश्लोकः । इमं च कुसुमाञ्जलि-
प्रकाशे वर्धमानः - (203-204 पृ.) व्याचकार - 'यस्य देवस्य एषा
अदृष्टरूपा सहकारिशक्ति: सहकारिकारणं असमा मायेत्युदिता
यन्मायाप्रभवं विश्वम् ; इत्यत्र माया शब्दनादृष्टस्याभिधानात् । अस-
मत्वे हेतुः दुरुन्नीतितः ; अदृष्टमाययोर्महाविचारोन्नेयत्वात् । 'प्रकृति
प्रभवं विश्वं, इत्यत्राप्यागमे अदृष्टरूपा शक्तिरेव प्रकृतिरुदिता । कुतः
मूलत्वात् मूलकारणमेव प्रकृतिशब्दार्थः । अदृष्टं च तथा । अवि-
द्याप्रभवत्वागमे सैवाविद्येत्युदिता । यतः प्रबोधात् तत्वज्ञानात् उभ-
योरपि भीतिः अविद्यावत् तज्जनकादृष्टस्यापि ततो भयात् तत्वज्ञाने
तदनुत्पत्तेः' इति । ' अपाष्ठति । 'अपदुस्सुषु स्थः ' इति कुः ।
अपार्थमित्यर्थः । धर्माधर्मरूपादृष्टस्य तन्मते जविगतत्वेन -
 
। *
 
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।
तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥
 
इति श्रुत्याद्यसमञ्जसं स्यात् । एवं ' अजामेकां लोहितशुक्लक-
ष्णाम्' इत्यादिरूपवत्त्वान्नानमप्यसङ्गतं स्यात् इति भावः ।
 
* परम्परोपदेशादिति---उपदेशश्च श्रुतिपुराणादौ बोध्यः ।
अतीन्द्रियजगत्कारणविषये अनुमानप्रवृत्तिं भवदभ्युपगतामनुसरन्तः