2025-01-21 07:36:03 by ambuda-bot
This page has not been fully proofread.
94
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[जडद्रव्य
ङ्न्यायानुग्रहमात्रेण बलाबलदृष्ट्या विरोधशान्तेः । केचित्तु
प्रकृत्यादिशब्दै' *रदृष्टादिकं कथ्यत इत्याहुः । यथाहोदयनः -
" इत्येषा सहकारिशक्तिरसमा माया दुरुनीतितो मूलत्वा-
प्रकृतिः । 2 * इत्यादि ।
"
आनन्ददायिनी
यबलादुभयोरविरोधस्यैव स्थि (र) तत्वात् । चतुर्धातुवाक्यं चतुर्णां
स्वरूपप्रतिपादनमात्रेणापि प्रामाण्यमश्नुते । न तदर्थमितरनिषेधमपेक्षते ।
चतुर्विंशतिवाक्यं तु न्यूनपरं चेन्न प्रामाण्यं लभते इति न विरोध
इति भावः । ननु चतुर्विंशतिवाक्यस्य चतुर्विंशतितत्वपरत्वं नावश्यं
वाच्यं; अन्यथाऽपि प्रामाण्योपपत्तेरिति नैयायिकमतमनुभाषते -
केचित्त्वित्यादिना । प्रथमादिपदेन महदहङ्कारादिशब्दग्रहणं । द्विती-
यादिपदेन बुद्धिविशेषचेतनगुणौ गृह्येते । कुसुमाञ्जलिसंमतिमाह-
यथाऽऽहेति । सहकारिशक्तिः सर्वकार्य सहकारिकारणं, अदृष्टमि-
त्यर्थः । दुरवबोधत्वान्मायाशब्दवाच्यतापीत्याह दुरुन्नीतितः ।
तस्य प्रकृतिशब्दवाच्यताऽपि युक्तेत्याह मूलत्वात्प्रकृतिरिति ।
1
भावप्रकाशः
-
' * अदृष्टादिकमिति - अदृष्टबुद्धिविशेषाहमभिमानाः प्रकृतिमहद-
हङ्कारशब्दार्थाः । तन्मात्राणि च सूक्ष्मभूतान्येव । कर्मेन्द्रि-
'याणि तु तत्तदधिष्ठानान्येवेति ।
2 * ' इत्यादीति -
-
प्रबोधभयतोऽविद्येति यस्यादिता ।
देवोऽसौ विरतप्रपञ्चरचनाकल्लोलकालाहलः
साक्षात्साक्षितया मनस्याभिरतिं बध्नातु शान्तो मम ॥