2025-01-21 07:36:04 by ambuda-bot
This page has not been fully proofread.
संरः]
त्रिगुणपरीक्षायां लोकायतनिरासः
93
सर्वार्थसिद्धिः
1
3
भूतार्थप्रतिसन्धाताऽप्यभ्युपगन्तव्यः । अस्तु तर्हि ' * पड्धातुवादः
*अध्वर्युभिस्तथाध्ययनात् इति चेत् *तर्बुद्वातृभिश्चतुर्णाम-
ध्ययनाच्चतुर्धातुवादः स्यात् । अनुक्तमविरुद्धमन्यतो ग्राह्य-
मिति चेत्समानं *भूयसां च प्राबल्यात् । * उपबृंहणप्राचु-
र्याच्च । न चात्र मिथो विरोधान्निरर्थकार्थवादमात्रता । सम्य-
आनन्ददायिनी
5*
तत्रानुभूतार्थप्रतिसन्धानं—- स्तन्यपानादीष्टसाधनतास्मृतिः । अभिन्नभवे -
बाल्ये अनुभूतस्य प्रतिसन्धानं — तत्स्मृतिः । षड्धातुवादः – षट्तत्व-
वादः । अध्वर्युभिरिति — " तस्माद्वा एतस्मादात्मन आकाशस्सं-
भूतः " इत्यादिना यजुर्वेदेऽध्ययनादित्यर्थः । उद्गातृभिरिति—" सदे-
व सौम्येदमग्र आसत्तित्तेजोऽसृजत ता आप ऐक्षन्त ता अन्नमसृजन्त "
इत्यादिवाक्यैरित्यर्थः । ननु
विभागेनोद्देशेनेतरव्यवच्छेदाद्विरोध
इत्यत्राह — भूयसां चेति । भूयसां – चतुर्विंशतितत्वप्रतिपादकानामिति
शेषः । विरोधाङ्गीकारेऽपि न तत्प्रतिबन्धीति भावः । भूयस्त्वमसिद्ध-
मित्यत्राह—उपबृंहणप्राचुर्यादिति । तथाच अनुग्राहकप्राचुर्यमपि प्राब-
ल्यप्रयोजकमविशेषादिति भावः । ननु भूयस्त्वमप्रयोजकं; शतम-
प्यन्धानां न पश्यतीति न्यायादित्यत्राह — नचात्रेति । सम्यन्या-
-
1
भावप्रकाशः
4
* षड्धातुवादः - आत्मपञ्चभूतरूपषट्पदार्थवादः । * अध्वर्यु -
भिः-यर्जुर्वेदिभिः । उद्गातृभिः - सामवेदिभिः । * भूयसां अतिरिक्तप्र-
दिपादकानां मैत्रायणीयसुबालमहोपनिषदादीनां ।
5 * उपबृंहणेति । विष्णुपुराण भारताद्युपबृंहणवचनान्याचार्यैः
न्यायसिद्धानादावुदाहृतानि ।