2025-01-21 07:36:03 by ambuda-bot
This page has not been fully proofread.
22
92
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[जडद्रव्य
नाद्यः असम्मतेः, गुरूक्तेश्व विरोचनोपदेशवदसुरमोहना-
र्थत्वात् । न द्वितीयः उक्तेषु विवादाभावात् । अधिकानां
निषेधस्य निष्प्रमाणकत्वात् । अनुपलब्ध्या निषेध इति चेन्न ;
योग्यानुपलब्धेरभावात् । इतरस्य निषेधकत्वायोगात् । उप-
लब्ध्या चेच्चतुर्णामुपादानं आकाशेन किमपराद्धम् । अस्ति ह्या-
संसारं तदुपलम्भः । न चात्रास्पर्शत्वादिभिर्वाधः । अरूपत्वा-
दिना वाय्वादेरपि नित्वप्रसङ्गात् । शेषं च वक्ष्यामः । अथ
उपलम्भवलाद्स्त्वाकाशमपीति चेत्; तथैव भिन्नाभिन्नभवानु-
"
आनन्ददायिनी
वत् ' इत्यादिनेत्यर्थः — विरोचनोपदेशवदिति — ब्रह्मणा मोहनार्थं
विरोचनं प्रत्युपदेशवादित्यर्थः । अधिकानामिति — संख्याविशेषात्तन्मूल-
भूतप्रमाणेनाधिकनिषेधः कर्तव्यः । आगमबाधे (न) तदनुमानायोगा-
दिति भावः । इतरस्य । अनुपलब्धिमात्रस्य । अस्ति हीति — इहाकाशे
विहगः पततीत्याबालमुपलम्भादित्यर्थः । अरूपत्वादिनेत्यादिशब्दद्व-
येन गन्धवत्त्वाभावाज्जलस्य स्नेहवत्त्वाभावात्तेजसश्चेति विवक्षितं ।
ननु महत्त्वे सत्युद्भतस्पर्शवत्त्वं बाह्ये (के) न्द्रियग्राह्यस्पर्शवत्त्वं वा
द्रव्यप्रत्य (क्षे) क्षत्वेत; अनुगतसंभवे तत्परित्यागायोगादिति चेत्तत्राह -
शेषं चेति—आकाशनिरूपणे इत्यर्थः । भिन्नभवो — जन्मान्तरं -
*
भावप्रकाशः
विरोचनोपदेशवदिति — छान्दोग्याष्टमप्रपाठकाष्टमखण्डे विरो-
चनं प्रति प्रजापत्युपदेशो ऽवसेयः ॥