This page has not been fully proofread.

सरः ]
 
त्रिगुणपरीक्षायां लोकायतनिरासः
 
91
 
सर्वार्थसिद्धिः
 
एवं द्रव्याद्रव्ये सामान्यतः प्रसाध्य द्रव्येषु प्रथमो -
दिष्टं त्रिगुणमादौ परीक्ष्यते । तत्र का दाह – ' धीमन्निदर्शन-
तया प्रसिद्धस्सुरगुरुर्लोकायतं शास्त्रमारभ्य पृथिव्यादीनि
चत्वार्येव तत्वान्याह । अधिकानि तु तावन्मात्रविभागोहे-
शादपोढानि । अतिरिक्तचेतननिषेधाच्चेति । अत्र किं लोका-
यतसूत्राणि स्वयंप्रमाणतयोपादीयन्ते । तदुपस्थापकतया वा !
आनन्ददायिनी
 
लीनत्वे सामग्र्यैक्यात्कायैक्यप्रसङ्गः । प्रागभावभेदस्य प्रतियोगिभेदा-
धीनतया तदसिद्धावसिद्धेः । भिन्नकालत्वे तु विशेषणस्य पूर्वत्वे निरा-
धारकार्योत्पत्तिप्रसङ्गः । विशेष्यपूर्वकत्वे तु गुणाश्रयो द्रव्यमिति द्रव्य-
लक्षणव्याघातः । न च गुणात्यन्ताभावानधिकरणत्वेन निर्वाह: अत्य-
न्ताभावानधिकरणत्वं नाम अत्यन्ताभावाभावाधिकरणत्वं ; तथा च
अभावाभावस्य भावात्मकत्वात् गुणाधिकरणत्वमित्यर्थस्स्यात् । तथाचो-
क्तदोषानतिक्रान्तिः । गुणात्यन्ताभावस्यैकत्वे तत्रैवातिव्याप्तिः । अने-
कत्वेऽनवस्थेत्यादिकमूह्यमिति ॥ १० ॥
 
इति द्रव्यातिरिक्तधर्माक्षेपपरिहारः.
 
प्रकृत्यादौ विप्रतिपत्त्यभावात्तत्र
 
प्रमाणोपन्यासवैफल्य-
 
माशङ्कयाह—–द्रव्याद्रव्ये इति । धीमन्निदर्शनतया - बुद्धिमद्दृष्टान्त-
तया । लोकायतं शास्त्रमारभ्येति' अथ लोकायतं शास्त्रं । पृथिव्या-
दीनि चत्वार्येव तत्वानि । तेभ्यश्चैतन्यं किण्वादिभ्यो मदशक्ति-