This page has not been fully proofread.

exiv
 
कैस्ताब्दानां षोडशे शतके सत्तया वैदुष्येण च प्रथितानां व्यास-
तीर्थानां न्यायामृतस्य बिम्बप्रकाशिका कर्त्रा देवराजेन नृसिंह देवपिता-
महेन स्वप्रबन्धे बहुशोऽनुवादात् ततोऽप्यर्वाचीन इति निर्णयामः ॥
व्याख्यानकौशलं च नृसिंहदेवसूरेः ; आनन्ददायिन्यारम्भे-
अप्रसिद्धस्य पक्षस्य विस्तरेण प्रकाशिकाम् ।
 
सर्वार्थसिद्धिसट्टीकां करोम्यानन्ददायिनीम्॥
 
इति स्वीयां प्रतिज्ञां यथावसरं निर्वहता साध्वेव गुणग्राहिरमणीयमिति
नात्राधिकं वक्तव्यमस्ति ॥
 
भावप्रकाशश्च तत्वमुक्ताकलापसर्वार्थसिद्धयोः तत्तत्स्थलेषु आन-
न्ददायिन्याप्यगतार्थेषु विषयेषु यथायथं वैशद्यातिशयमादधानः तत्र-
तत्राचार्यसूक्तिषु शब्दतोऽर्थतश्च विवक्षितान् विशदरमणीयमुपहरन्
प्रेक्षावतां सुबहूपकारक इति वक्तुं प्रमोदामहे ॥
 
आचार्यवैदुष्यपरिचयः.
 
बहुविधगहनदर्शनारण्यप्रथमहामार्मिकस्य भगवतो निगमान्त-
 
गुरोः वैदुप्यसाक्षिसहस्रे कं चिदेकं सहृदयेष्वर्पयितुं प्रवर्तामहे -
 
चार्वाकदर्शनमिति लोकायतदर्शनमिति च बार्हस्पत्यसूत्रोपज्ञं
प्रथमानमास्ते किमपि दर्शनम् । तस्य च दर्शनस्य प्रायस्सर्वे दार्शनिका
अनुवदितारो निरासकाश्च न खलु स दृश्यते श्रूयते वा आस्तिको
नास्तिको वा दार्शनिकः यश्चार्वाकदर्शनमिति कैश्चिदक्षरैरननुवदन् ससं-
रम्भमनिरस्यंश्च स्यात् !
 
लोकायतपदप्रयोगविषयः
 
लोकायता वदन्त्येवं नास्ति देवो न निर्वृतिः ।
धर्माधर्मौ न विद्येते न फलं पुण्यपापयोः ॥
 
(हरिभद्रसूरेष्षड्दर्शसमुच्चये)