2025-01-21 07:36:03 by ambuda-bot
This page has not been fully proofread.
सरः]
द्रव्यातिरिक्तधर्माक्षेपपारहारः
89
तत्त्वमुक्ताकलापः
तद्वदन्येऽपि जल्पाः ॥ १० ॥
सर्वार्थसिद्धिः
प्रसङ्गाः । ते कथमुद्धार्या इत्यत्राह - तदन्येपि जल्पा इति ।
अन्येपि -- नित्यसमादिरूपाः शुष्कप्रलापाः । तद्वत्-निरस्त -
वाक्यैस्तुल्यं वर्तन्ते । उत्थान परिहारप्रकारभेदेऽपि स्वव्याघा-
तादिदोषाविशेषादित्यर्थः ।
-
घटकुड्यवदन्यत्वेऽनन्यत्वे तु स्वरूपवत् ।
न गुणस्य गुणत्वं स्यादित्यसत् स्वोक्तिबाधतः ॥
दूष्यादन्यदनन्यद्वा दूषणं न तु दूषणम्
गर्दभादिवदन्यत्वेऽनन्यत्वे दूपणीयवत् ॥
आनन्ददायिनी
-
PST
भावः । नित्यसमादिरूपेति — क्वचित्साहचर्य दर्शनमात्रेण व्यापकापादनं
नित्यसमः । आदिशब्देनोत्कर्षसमादयो गृह्यन्ते । मतुबन्तता भ्रान्ति
वारयति - निरस्तवाक्यैरिति । ननु कथं तुल्यत्वं उत्थानस्य परिहारस्य
च भिन्नत्वादित्यत्राह—उत्थानेति । व्याघातांशमादाय तुल्यत्वमित्यर्थः ।
अन्येऽपि जल्पा इत्युक्तांशं दर्शयति — घटकुड्यवदिति । धर्मधर्मिणो-
1
दोऽभेदो वा ? आद्ये घटकुड्यवद्धर्मधर्मिभावो न स्यात् । द्वितीये
स्वरूपवद्धर्मधर्मिभावो न स्यादित्यर्थः । स्वोक्तिबाधत इति -- सिद्ध्य-
सिद्धिरूपव्याघातादित्यन्ये । अनुमानेन धर्मधर्मिभावखण्डने अनुमा
नस्य धर्मधर्मिप्रतिपादकोदाहरणोपनयरूपस्वोक्तिविरोधादित्यर्थ इत्य-
परे । जातिरूपतया स्वव्याघातकत्वादित्यप्याहुः । दूषणस्य स्वव्यापक-
त्वमेव दर्शयति--- दूष्यादन्यदिति -- दूषणं दूष्यादन्यन्न वा ? उभय-