This page has not been fully proofread.

88
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
सर्वार्थसिद्धिः
 
विशिष्टं नास्तीत्यपि विशिष्टमात्थ । तच्च विशिष्टविषयस्वधी-
विरुद्धमिति । सन्त्यन्येऽपि धर्मधर्मिभावभञ्जकाः परेषां
 
आनन्ददायिनी
 
स्वधीवाग्विरोधं दर्शयति --- विशिष्टं नास्तीत्यपीति । स्वधीवाग्विहति-
मुपपादयति तच्चेति । अनेन वाक्येन विशिष्टाभावविषयिणी विशि-
ष्टबुद्धिर्जायमाना विशिष्टसाधिकेति । तया वाचा धियो विरोध इति
 
-
 

 
भावप्रकाशः
 
वस्तुरूपं सन्निवेशोपाधिधर्मात्मकं । तत्र यन्न भ्राम्यति तदभ्रान्तं । एतच्च
लक्षणद्वयं विप्रतिपत्तिनिराकरणार्थं । न त्वनुमाननिवृत्त्यर्थं ; यतः कल्प-
नापोढग्रहणेनैवानुमानं निवर्तितं । तत्रासत्यभ्रान्तग्रहणे गच्छद्वक्षदर्शनादि
प्रत्यक्षं कल्पनापोढत्वात्स्यात् । ततो हि प्रवृत्तेन वृक्षमात्रमाप्यत इति
सम्पादकत्वात्सम्यक्ज्ञानं कल्पनापोढत्वाच्च प्रत्यक्षमिति स्यादाशङ्का ।
तन्निवृत्त्यर्थमभ्रान्तग्रहणं । तद्धि भ्रान्तत्वान्न प्रत्यक्षं । त्रिरूपलिङ्ग-
जत्वाभावान्नानुमानम् । न च प्रमाणान्तरमस्ति । अतो गच्छक्षदर्श-
नादि मिथ्याज्ञानमित्युक्तं भवति । यदि मिथ्याज्ञानं; कथं ततो
वृक्षावाप्तिरिति चेत्; न ततो वृक्षावाप्तिः । नानादेशगामी हि
वृक्षः । तेन परिच्छिन्नः एकदेशनियतश्च वृक्षोऽवाप्यते । ततो
यद्देशो गच्छद्रक्षो दृष्टस्तद्देशो नावाप्यते । यद्देशश्चावाप्यते स न
दृष्ट इति न तस्मात्कश्चिदर्थोऽवाप्यते ज्ञानान्तरादेव तु वृक्षादिरर्थोऽ-
वाप्यते इत्येवमभ्रान्तग्रहणं विप्रतिपत्तिनिरासार्थं । भ्रान्तं ह्यनुमानं ।
स्वप्रतिभासेऽनर्थेऽध्यवसायेन प्रवृत्तत्वात्' इति व्याख्यौ ।