This page has not been fully proofread.

सर:]
 
द्रव्यातिरिक्तधर्माक्षेपपरिहारः
 
सर्वार्थसिद्धिः
 
87
 
रिति प्रत्येकसमुदायपरं योज्यं । कथं विशिष्टधीविरहे तवापि
तद्विपयव्याहारव्यवहारौ ? उदाहरणोपनयौ च वस्तुतस्तद्धर्मवि-
शिष्टविषय । बुद्धिस्स्वप्रकाशा 'अभिन्नदेशकालं स्वल-
क्षणं कल्पनापोढमभ्रान्तं प्रत्यक्षं प्रतिवादिवाक्यमसाधकं
 
आनन्ददायिनी
 
SIPSIPPE
 
नातो द्वन्द्वाच्चुदषहान्तात्समाहार इति समासान्तः । स्वधिया विहतिं
दर्शयति---कथमिति । तद्विषयेति । उक्तिः व्याहारः । व्यवहारः-
प्रवृत्त्यदिः । तयोर्विशिष्टधी साध्यत्वादित्यर्थः । स्ववाग्विरोधमाह – उदा-
हरणेति । उदाहरणं दृष्टान्तवाक्यं । उपनयः - संश्च शब्दादिरिति वाक्यं ।
 
T
 
भावप्रकाश:
 
'*अभिन्नदेशकालं स्वलक्षणमिति । अत्रोदाहृतन्यायबिन्दुवाक्या-
न्यनुसन्धेयानि। *कल्पनापोढमित्यादि । अत्र धर्मोत्तराचार्यः—'तत्र
प्रत्यक्षत्वमनूद्य कल्पनापोढत्वमभ्रान्तत्वं च विधीयते । यत्तद्भवता-
मस्माकं चार्थेषु साक्षात्कारि ज्ञानं प्रसिद्धं तत्कल्पनापोढाभ्रान्त-
त्वयुक्तं द्रष्टव्यम् । न चैतन्मन्तव्यं कल्पनापोढा भ्रान्तत्वं चेद-
प्रसिद्धं किमन्यत्प्रत्यक्षस्य ज्ञानस्य रूपमवशिष्यते ;
शब्दवाच्यं सदनूद्येतेति । यस्मादिन्द्रियान्वयव्यतिरेकानुविधाय्यर्थेषु
साक्षात्कारेि ज्ञानं प्रत्यक्षशब्दवाच्यं सर्वेषां सिद्धं । तदनुवादेन कल्पना-
पोढाभ्रान्तत्वविधिः । कल्पनापोढम् —–—–— कल्पनास्वभावहितमित्यर्थः ।
अभ्रान्तं - अर्थक्रियाक्षमे वस्तुरूपेऽविपर्यस्तमुच्यते । अर्थक्रियाक्षमं च
 
यत्प्रत्यक्ष-