This page has not been fully proofread.

86
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
तत्वमुक्ताकलापः
 
नोक्तौ दोषौ स्ववाग्विहतिरितरथा
 
सर्वार्थसिद्धिः
 
बाधस्याशामोदकायमानत्वात् 'विकल्पप्रामाण्यं च वक्ष्यते ।
अतो यथादर्शनं क्वचित्किञ्चिद्वर्तते न स्वस्मिन् इति व्यव -
स्थिते त्वदुक्तौ व्याघातात्माश्रयदोषौ न स्त इत्याह- अतो
नोक्तौ दोषाविति । अन्यथा अनिष्टमाह – स्वध वाग्विहति-
रितरथेति । स्वधीविहतिः स्ववाग्विहतिः, स्वधीवाग्विहति-
आनन्ददायिनी
 
योर्बांधकयोरद्याप्यलब्धजीवितत्वादित्यर्थः । ननु सर्वविकल्पानां वास-
नानिर्मिततया प्रकारद्वयेनापि विषयव्यवस्थापकत्वमनुपपन्नमित्यत आह-
विकल्पेति---बुद्धिसर इति शेषः । स्वर्धावाग्विहतिरिति --- धीश्च वाक्चे-
तीतरेतरयोगे द्वन्द्वसमासः ।
 
2
 
भावप्रकाशः
 
-'
 
कारकब्रह्मज्ञानं त्वप्रमेत्यभ्युपेयते इति शङ्कायामाह - ' विकल्पप्रामा-
ण्यमित्यादि । * वक्ष्यते इति । बुद्धिसरे (३३) इति भावः । इद-
मत्र बोध्यं - प्रकारभूतो व्यावर्तकोऽपि धर्मो द्विविधः —उपलक्षणं विशे-
षणं चेति । स्वविशेष्यमात्रेऽन्वयि उपलक्षणं स्वविशेष्यान्वितेऽप्य-
न्वयि विशेषणमिति आद्यस्य दण्डी कुण्डलीत्यादिकं द्वितीयस्य
रूपवान् प्रमेय इत्यादिकमुदाहरणं इति ज्ञानत्वव्यापकं किञ्चिन्निष्ठ-
प्रकारतानिरूपितविशेष्यताकत्वमिति नियमस्यानुभवसाक्षिकस्य न बाध
 
इति ॥