This page has not been fully proofread.

सरः]
 
द्रव्यातिरिक्तधर्माक्षेपपरिहारः
 
सर्वार्थसिद्धिः
 
85
 
भ्युपगमे तु 'लोकायतावतारात् । इष्यते च अविद्यावास -
नादि भ्रन्तेरपि निदानं भवद्भिः । अत एव न तृतीयः ।
नापि चतुर्थः स्वपरलोकव्यवहारविरोधादेव । कथं किलासौ
विशिष्टप्रतीतिः कथं च निर्विषया ? न पञ्चमः, अद्यापि
 
आनन्ददायिनी
 
र्दोषः । तदधीनकल्पितविषया विशिष्टधीरित्यर्थः । लोकायतेति —
चार्वाकमते
 
--
 
कार्यकारणभावाभावादिति भावः । नचेष्टापत्तिः अप-
सिद्धान्तप्रसङ्गापत्तेरित्याह — इष्यते चेति । अविद्या –— दोषः । वासना
पूर्वपूर्वसंस्कारः । आदिशब्देनालम्बनसमनन्तरसहकार्यधिपतिप्रत्ययादयः ।
अत एवेति—तत्कारणतयैव निरूपणसंभवादित्यर्थः । स्वपरेति-
लोको द्विविधः स्वः परश्चेति । तद्व्यवहारविरोधादित्यर्थः कथं चेति
विशिष्टविषया प्रतीतिर्विशिष्टप्रतीतिः । तथा च विशिष्टप्रतीतिर्नि-
र्विषयेति स्ववचनव्याघात इत्यर्थः । अद्यापीति-
 
भावप्रकाशः
 
ब्रूयात्तत्कस्यचिन्नाम घटः प्रत्यक्ष इत्यपि ॥
 
-व्याघातात्माश्रय-
 
इति । 1* लोकायतावतारादिति । तन्मते कार्यकारणभावानङ्गीकारे
युक्तयः तद्दृषणप्रकाराश्च (३१) प्रकाशयिष्यन्ते । ' शब्दज्ञानानुपाती
वस्तुशून्यो विकल्प' इति पातञ्जलैर्निर्विषयख्यात्यङ्गीकारेण तदभि-
प्रायेण निर्विषयेति पृथक्कोटिः । ननु स्वलक्षणस्यैव परमार्थसत्त्वेन
सप्रकारकज्ञानसामान्यं भ्रमः, वेदवादिभिरपि निर्गुणं ब्रह्मैव परमार्थसत्
सगुणं त्वपरमार्थमेवेति निर्विकल्पकं ब्रह्मज्ञानमेव तत्वतः प्रमा सप्र-