This page has not been fully proofread.

84
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
सर्वार्थसिद्धिः
 
तीतिरेव नास्ति, सत्यपि वा निष्काणिका, सकारणापि वा
दुर्निरूपकारणा, निरूपितकारणापि वा निर्विषया, सविषयाऽपि
वा बाधितविषया ? इति ; नाद्यः ; लौकिकपरीक्षक बहिष्कार-
प्रसङ्गात् । '* सर्वशून्यवादिनापि हि संवृत्या विशिष्टधीरि-
ष्यते । न द्वितीयः, कार्यस्य कारणावश्यम्भावात् । तदन-
आनन्ददायिनी
 

 
-
 
सिद्धान्तिवाक्यं । नन्विति प्रश्नपरं । उत्तरमाह — किमित्यादि । प्रतत्यिा
ह्यर्थक्लृप्तिर्द्धेधा – कार्यत्वेन कारणतया, विषयत्वेन विषयित-
या वा; उभयथाऽपि न सम्भवतीति प्रथमः
कल्पः । कार्यत्वेन
कारणतयाऽर्थकल्पनं न संभवतीति द्वितीयतृतीयौ । विषयविषयितया
कल्पनं न संभवतीति चतुर्थपञ्चमाविति विवेकः ।
 
भावप्रकाशः
 

 
संवृति
 
'* सर्वशून्यवादिनाऽपीत्यादि । तदुक्तं माध्यमिकवृत्तौ — अपि च
लोकव्यवहाराङ्गभूतो घटः पतिनीलादिव्यतिरिक्तो नास्तीति कृत्वा तस्यो-
पचारः कल्प्यते । नन्वेवं सति पृथिव्यादिव्यतिरेकेण नीलादिकमपि
नास्तीति नीलादेरप्यौपचारिकं प्रत्यक्षत्वं कप्ल्यतां । यथोक्तम्—–
रूपादिव्यतिरेकेण यथा कुम्भो न विद्यते ।
 
वाय्वादिव्यतिरेकेण तथा रूपं न विद्यते ॥
 
इति । तस्मादेवमादिकस्य लोकव्यवहारस्य लक्षणेनासङ्ग्रहादव्यापि-
तैव लक्षणं स्यात् । तत्वविदपेक्षया हि प्रत्यक्षं घटादीनां नीला-
दीनां च नेष्यते । लोकसंवृत्या त्वभ्युपगन्तव्यमेव प्रत्यक्षत्वं घटा-
दीनां । यथोक्तं शतके-
 
सर्व एव घटो दृष्टो रूपे दृष्टे हि जायते ।