This page has not been fully proofread.

सरः]
 
द्रव्यातिरिक्तधर्माक्षेपपरिहारः
 
83
 
तत्त्वमुक्ताकलापः
 
न भवति तत एवास्य तच्छून्यताऽतो
 
सर्वार्थसिद्धिः
 
विशेष्ये तद्विशिष्टवृत्त्यभावे तच्छून्यवृत्तिस्स्यादेवेति चेत्तत्राह -
न भवति तत एवास्य तच्छून्यतेति । यत्र यद्वर्तते तस्य
कथं तच्छून्यत्वं न च तद्वति वर्तमानस्य तस्मिन्नपि वृत्ति-
रिति नियमः; घटवति भूतले वर्तमानानां गुणादीनां घटेऽपि
वृत्तेरदृष्टेः । एवं घटस्यापि । ननु सर्वत्र वृत्तिविकल्पेन विशिष्टं
दूषयतः किं (निदानं ) ? निदर्शनं । किं क्वचिदपि विशिष्ट -
आनन्ददायिनी
 
षिकसौत्रान्तिकमतोपसंहारः । वस्तुतस्तद्विशिष्टे – तदाधारे इत्यर्थः ।
यत्र यद्वर्तत इति ततश्च तदाश्रयस्य तच्छून्यत्वं स्वस्य स्वविशिष्टत्व-
मिति वा विरुद्धं । ततश्च --
 
तर्तुकामो यथा गर्तं वेगादुत्प्लुत्य मूढधीः ।
अन्धः कूपे पतेत्तद्वद्वौद्धो व्याप्तिसमर्थनात् ॥
 
इति न्यायानुसरणमिति भावः । किञ्च यत्र रूपं न तत्र रूपा -
भावः यत्र रूपाभावः तत्र न रूपमिति व्याप्तिं वदता रूपस्य वृत्ति-
रभ्युपगतेति । ततश्च--
 
अस्मदुक्तं भवान्वक्ति नान्यत्किञ्चन भाषते ।
 
पिशाच इव कूटस्थः तस्मात्त्वत्तो विभेम्यहम् ॥
 
इति न्याय इति भावः । ननु घटवति भूतले इत्यादेर्दृष्टान्त-
स्यापि पक्षतुल्यत्वात्तदुदाहरणमसङ्गतमिति शङ्कते – नन्विति । निदर्शनं
दृष्टान्तः । क्वचित् किं निदानमिति पाठः । तदा नन्वित्यारभ्य
 
6*