2025-01-21 07:36:00 by ambuda-bot
This page has not been fully proofread.
सरः ]
द्रव्यातिरिक्तधर्माक्षेपपरिहारः
81
तत्त्वमुक्ताकलापः
स्वाधारत्वप्रसङ्गस्तत इह न गुणो नापि धर्मीत्य-
युक्तम् ।
सर्वार्थसिद्धिः
स्वाधारीकुर्यात् । किमत्रानिटम् ? स्वस्य स्वस्मादन्यत्वम् । अभेदे
आनन्ददायिनी
आत्माश्रय इत्यसङ्गतं उत्पत्तिज्ञप्तिप्रतिबन्धकत्वाभावादित्याशङ्कय आधा-
राधेयभावे भेदस्स्यात् तस्य भेदाधीनत्वादिति परिहरति——-किमत्रे-
त्यादिना । ननु प्रमेयत्वे प्रमेयत्वमित्यादावभेदेऽपि दर्शनात्तथाऽत्राप्यस्त्वि-
त्यत्राह - - अभेद इति ॥
कथं स्ववृत्तिरिष्टा चेद्यथाऽन्यत्रेति गम्यताम् ।
प्रमाणं कारणं वृत्तौ न भिन्नाभिन्नते यतः ॥
इति न्यायेन प्रमाणसद्भावात्तथाऽङ्गीकारः ; इह तु न तथा ; प्रमाणा-
भावादिति भावः । नन्वेकस्यैव घटस्य भूतलाधेयत्वं रूपाधारत्वं च
भावप्रकाशः
इति भावः । * स्वस्य स्वस्मादन्यत्वमिति - तदवच्छिन्ननिरूपिताधेयता-
यास्तत्राङ्गकारे स्वस्य स्वधर्मितावच्छेदकत्वप्रसङ्गेन विधेयत्वोद्देश्यत्वा-
द्यवच्छेदक भेदाद्यभावेन शुक्लादिशब्दाच्छाब्दानुपपत्तिरिति भावः । न
चात्र तदुपलक्षिते तस्य वृत्तिरिति संभवति ; अविद्यमानं सत् व्यावर्तक-
मुपलक्षणमिति परिभाषा । एवं सति धर्मस्याविद्यमानत्वे धर्मिणोऽ-
पि सत्त्वासंभवेन कस्यायं व्यावर्तको भवेत् ? किञ्च धर्मस्योपल-
क्षणत्वे उक्तरीत्या प्रतत्यिप्रकारत्वेन भवदिष्टसिद्धिरपीति ।
SARVARTHA.
6