2025-01-21 07:36:00 by ambuda-bot
This page has not been fully proofread.
80
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[
जडद्रव्य
सर्वार्थसिद्धिः
1
मात्रं तावति विशिष्टधीव्यवहारयोरभावात् । * अतस्सम्ब-
न्ध्युभयं विशिष्टशब्दार्थ इति स्यात् । तथा च स्वविशिष्टे वर्त-
मानो गुणः स्वविशेष्यमिव स्वात्मानमपि ।
दिव्यवहारप्रसङ्गं वारयति
भावप्रकाशः
;
सम्बन्ध्युभयमिति । एतेन प्रत्येकज्ञानात्
समूहालम्बनाच्च विशिष्टज्ञानस्य वैलक्षण्यादिकमुपपादितं भवति । तथाहि -
दण्डी पुरुष इति प्रत्यये संयोगेन दण्डसम्बद्धः पुरुषः पुरुषे दण्ड
इति प्रत्यये च पुरुषसम्बद्धो दण्डो विषयः । प्रतीतेर्विशिष्टविषयकत्वं च
दण्डनिष्ठप्रकारतात पुरुष्ठविशेष्यतानिरूपकतादिकं । अतो
विशिष्टशुद्धयोरभेदेऽपि समूहालम्बनादेकः पुरुष इत्यादितश्च विशिष्ट-
ज्ञानस्य वैलक्षण्यं । तन्निबन्धन एव व्यवहारभेदः । नहि विषयवैलक्षण्या-
देव प्रतीतिवैलक्षण्यमिति राजाज्ञा विशेष्यप्रकारभावादिविषयता
वैलक्षण्यादपि तदुपपत्तेः । ज्ञानातिरिक्तश्चार्थो बुद्धिसरे स्थापायष्यते ।
विशेषणावच्छिन्नप्रतियोगिताकत्वेन विशेषणविशेष्योभयपर्याप्त प्रतियो-
गिताकत्वेन वा विशिष्टाभावस्य शुद्धाभावाद्भेद इत्यक्षपादानुया-
यिग्रन्थेषु व्यक्तं । भावान्तराभाववादे च न दोपलेशोऽपीत्यादिकं
विषयित्वप्रतियोगित्वादिकं च यथाऽवसरं विवेचयिष्यते
स्वविशिष्ट इत्यादि—अत एव वेदप्रामाण्यवादिभिरपि सोऽयं देवदत्त
इत्यादौ तत्तेदन्तयोरुपलक्षणत्वमेव न तु विशेषणत्वं । दण्डी कुण्डली -
त्यादावपि दण्डुकुण्डलोपातियोस्तादात्म्यमेव विषयः इत्यभ्युपगतं ।
तदुक्तं संक्षेपशारीरके----
अविरुद्धविशेषणद्वयप्रभवत्वेऽपि विशिष्टयोर्द्वयोः ।
घटते न यदैकता तदा न तरां तद्विपरीतरूपयोः ॥
±* तथाच