2025-01-21 07:35:18 by ambuda-bot
This page has not been fully proofread.
xiii
-
अयं च सुगृहीतनामा नृसिंहदेवः श्रीवत्सगोत्रः नरसिंहसूरे-
स्तनयः । तोतारम्बानाम्नी चास्य माता । देवराजसूरिः पितामहः ।
कौशिककुलश्रीभाप्यश्रीनिवासाचार्योऽस्य मातामहः । कौशिकः श्रीनि
वासाचार्योऽस्य वेदान्तशास्त्रे गुरुः । आनन्ददायिन्यारम्भे----' आत्रेय-
वंशदुग्धाब्धी ' त्यस्मिन् पद्ये अप्पलाचार्य इति निर्दिश्यते । स चाप्पला -
चार्यः ; सुराचार्येत्यादितदुत्तरार्धस्थाने --' अप्पलाचार्यवर्यं तं भजे
विद्यागुरुं मम' इति पाठान्तरोपलम्भात् तदानुगुण्येन नृसिंहदेवस्य
सामान्यशास्त्राध्यापक इति निश्चीयते ॥
वेदान्ताचार्य इति सरान्तेषु मातुलनिर्देशात् कौशिक इति
तद्गोत्रनिर्देशाच्च तत्वमुक्ताकलापादिकर्तुराचार्यस्य भागिनेयस्स्यादिति
शङ्काऽप्यङ्कुरन्ती प्रबन्धादौ निगमान्तगुरुप्रबन्धव्याख्यातुः निगमान्त
गुरोस्सुदूरपरभाविनो महाचार्यस्य तत्प्रबन्धानां वेदान्तविजयादीनां
च निर्देशात् कौशिककुलश्रीभाष्यश्रीनिवासाचार्यस्य मातामहत्वोक्तया
महाचार्यादप्यर्वाचीनस्य देवराजस्य पितामहत्वोक्तया च निवारणीया ॥
नृसिंहदेवस्य पितामहत्वेनोक्तो देवराजश्च बिम्बतत्वप्रकाशिका -
कर्ता देवराज एव स्यादिति तर्कयामः ॥
नृसिंहदेवविरचिताः प्रबन्धाश्च - १. परतत्वदीपिका, २ . भेद-
धिक्कारन्यक्कारः, ३. मणिसारधिक्कारः, ४. सिद्धान्तनिर्णयः, ५. आ-
नन्ददायिनी, ६ निक्षेपरक्षाव्याख्या नृसिंहराजीयाख्या, ७ शत-
दूषणीव्याख्या नृसिंहराजीयाख्या चेत्यष्टौ प्रसिध्यन्ति । श्रीमन्निगमान्त-
गुरुप्रबन्धानां सर्वेषामेवानेन व्याख्या विरचिता इत्यपि वदन्ति ॥
अस्य च नृसिंहदेवस्य कालविषये विशिष्य निर्णायकस्यास्माभि-
रनुपलम्भेऽपि मणिसारभेदधिक्कारादिग्रन्थेभ्योर्वाचीनतां निश्चिन्वन्तः