This page has not been fully proofread.

78
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[
जडद्रव्य
 
सर्वार्थसिद्धिः
 
कथं निषेधः ? योग्यानुपलब्धेरिति चेन्न तदुपलब्ध्यनुपल-
ब्ध्योरपि विरोधाभावात् । किंच अनुपलब्धिः अभावोपस्थापनेन
भावं विरुन्ध्यात् तदा कथं तच्छून्ये तस्य वृत्ति: ? न द्वितीयः ।
आत्माश्रयापातात् '* विशिष्टं विशेषणविशेष्यतत्संबन्धातिरिक्तं
आनन्ददायिनी
 
-
 
ननु तत्राप्यनुपलब्धया निश्चयोऽस्त्विति शङ्कते योग्यानुपलब्धेरिति ।
अनुपलब्धिर्न तावत्स्वरूपाभावाविषया ; अपितूपलब्धयभावरूपतया
उपलम्भरूपप्रमाणाभावे प्रमेयाभाव इति व्याप्तया वा प्रत्यक्षसहका-
रेण वा । उभयथाऽपि नानुपलब्धिमात्रमभावनिश्चयहेतुः घटवति घटानु-
पलब्धिमति व्यभिचारात् । किञ्च तयाऽभावनिश्चयोऽस्तु तावतापि
रूपज्ञानं रसवत्त्वमित्र कथं भावं निरुन्ध्यात् विरोधाभावात् इत्याह-
न तदुपलब्धयनुपलब्धयोरिति । ननु अनुपलब्धिरभावमुपस्थाप्य सत्त्व-
विरोधी न भविष्यतीत्यत्राह — किञ्चेति । तथा सति भावस्याभाववि-
 
-
 
भावप्रकाशः
 
त्युक्तं । तत्र प्रथमपक्षवादिन इत्थमाहुः - विशिष्टं विशेषणविशेष्य-
तत्सम्बन्धातिरिक्तं । समूहालम्बनाद्विशिष्टज्ञानस्य समूहालम्बनजन्यव्यवहा-
राद्विशिष्टव्यवहारस्य च भेदात् । एकः पुरुष इत्यादिप्रतीतिविलक्षणादे को
दण्डीति प्रत्ययात् प्रत्येकाभावाद्विशिष्टाभावस्यापि भेदाच्च । विशेषणसन्नि
धानेन विशेष्यं विशेष्यसंनिधानेन विशेषणं विशेषणविशेष्योभयं वा
विशिष्टोपादानं । विशिष्टप्रत्येकयोश्च भेदाभेद इति । तन्मतेनात्र
समाधिर्न सम्भवतीत्याह - '*विशिष्टमित्यादि ।