This page has not been fully proofread.

सरः]
 
द्रव्यातिरिक्तधर्माक्षेपपरिहारः
 
तत्त्वमुक्ताकलापे
 
77
 
तच्छून्ये तस्य वृत्तिः कथमिव घटते तद्वि-
 
शिष्टे तु वृत्तौ ।
 
सर्वार्थसिद्धिः
 
पुनरपि धर्मस्य धर्मिणि वृत्ति विकल्प्य तदुभयमप-
हुवानं प्रत्याह- तच्छून्य इति - योऽयं रूपादिः द्रव्यस्य गुणतयेष्टः
स किं स्वशून्ये वर्तते स्वविशिष्टे वा ? नाद्यः । व्याघातात् ;
अन्यथा सर्वेषां सर्वत्र वृत्तिः किं न स्यात् ? खपुष्पादीनामपि
आनन्ददायिनी
 
ननु पूर्वमेव धर्मधर्मिभावानुपपत्तिमाशङ्कय समाहितत्वात् पुनस्त-
त्कथनमयुक्तं इत्याशङ्कय निरसनीयशङ्काभेदान्न पौनरुक्तयमित्याह --
पुनरपीति । एकस्मिन् काले स्वात्यन्ताभाव सामानाधिकरण्यं विरुद्ध-
मित्याह —याघातादिति । विरोधादित्यर्थः । अन्यथा —–— विरोधाभावे ।
ननु सर्वत्र सर्वं स्यादित्ययुक्तं रूपरसयोर्विरोधाभावमात्रेण तेजसि न रस-
प्रसक्तिः अपि तु तत्सत्ताग्राहकप्रमाणसत्त्वे; सर्वत्र तदनुपलब्धेर्न
प्रसक्तिरित्यत्राह-खपुष्पादीनामिति । निषेधः –– निस्स्वभावत्वानियमः ।
!
 
एतावता-
 
भावप्रकाशः
 
अविशिष्टाद्विशिष्टस्य वैशिष्ट्ये यदि धीर्विशेत् ।
हुद्धिधाराऽविश्रान्तिरस्याद्वा मूलाविशिष्टता ॥
 
इति खण्डनोक्तदूषणमपि परिहृतं । अथ खण्डनकृता विशि-
ष्टस्यातिरिक्तानतिरिक्तत्वपक्षद्वयं दूषयित्वां लक्षणनिर्वचनं न संभवती-