2025-01-21 07:35:57 by ambuda-bot
This page has not been fully proofread.
16
76
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[जडद्रव्य
नाधिकरण प्रयोगे विशिष्टत्वेनावस्थितोऽपि ' *अर्थतस्स्वधर्मं
अन्यनिष्ठाद्व्यवच्छिनत्ति स एव पटस्य शौक्लयमित्यादि-
प्रयोगे गुणीभवन् कण्ठोक्तेन स्वसम्बन्धेन विशिनष्टि ।
गोत्वं शौक्लयं इत्यादिपदेष्वपि " तस्य भावस्त्वतलौ" इत्यादि
विहिततद्धिताश्रयवाच्यत्वेन धीस्थ एवार्थो निष्कृष्यमाणः
स्वविशेषणनिरूपकतया अनुशिष्यते । एवं विशेष्यस्यैव द्विधा
विशेषणयोग इति व्यञ्जनाय पुनःशब्दः; निष्कर्ष प्रयोगेषु
विशेषं वा द्योतयति ॥ ९ ॥
आनन्ददायिनी
नन्वेवं सति गोत्वं शौक्क्यमित्यादौ तद्धिताश्रयप्रकृतिगवादिशब्दैः
धर्म्येव धर्मविशेषितः प्रतीयत इति गुणीभवन् कण्ठोक्तेन सम्बन्धेन
प्रतीयत इत्यनुपपन्नमित्यत आह – गोत्वं शौक्लयमित्यादति । प्रकृत्या
विशिष्टार्थोपस्थितावपि तद्धितार्थधर्मान्वयबोधसमये गौर्नित्येत्यादाविव
धर्मं विहाय स्वरूपमन्वेतीति न दोष इति भावः । ननु जातिर्गुणः
क्रियेत्यत्र न धर्युपस्थापकं प्रमाणमस्ति । अनुपस्थितानां च न व्याव-
र्तकत्वं । न च जात्यादिकमेव तदुपस्थापकं ; अनुपस्थापितस्य तस्य
तदुपस्थापकत्वायोगात् । उपस्थापनस्य व्यापकधर्म्युपस्थापनाधीनत्वा-
दिति चेत्तत्राह - - निष्कर्षप्रयोगेष्विति । तत्तच्छब्द एव सहानुभवसाम-
र्थ्यात् स्मारयति, स्मृतानां व्यावर्तकत्वं चेति न विरोध इति
भावः ॥ ९ ॥
--
भावप्रकाशः
प्रतयिते' इत्युत्तरभाप्यैकरस्यादिति सिद्धं । 'अर्थत इति एतेन
गौरिति प्रत्यये गोत्वे गोराधेयतासम्बन्धेन भानं नास्तीति सूचितम् ॥