This page has not been fully proofread.

सरः]
 
द्रव्यातिरिक्तधर्माक्षेपपरिहारः
 
सर्वार्थसिद्धिः
 
75
 
व्यावर्तकत्वादित्थम्भावत्वं सिध्यति । तथा च नियत-
निष्कर्षकप्रयोगेष्वप्येतेषु धर्मी धर्म विशिनष्टि यथा पटस्य
शौक्लयं खण्डस्य गोत्वमित्यादिषु । धर्मी विशेषः धर्मस्य
स्वेतरनिष्ठाद्वयावृत्तिधीहेतुरित्यर्थः । न चात्र मिथस्संश्रयः ।
विशेषणविशेष्याधियोस्तद्व्यवहारयोश्च मिथो जन्यत्वाभावात् ।
निष्कर्षानिष्कर्षव्यवहारयोश्च विवक्षाभेदायत्तत्वात् उभयथा
व्यवहारस्य सर्वत्र सर्वैरपि दुरपह्नवत्वात् । यश्चात्र समा-
आनन्ददायिनी
 
-
 
व्यावर्तकत्वादिति । राज्ञः पुरुष इत्यादौ व्यावर्तकत्वादित्यर्थः । ननु
परस्परव्यावृत्तबुद्धिविषयत्वेऽन्योन्याश्रयः इत्याह – नचेति । परस्पर-
विशिष्टबुद्धिर्व्यावृत्तिधहेतुः । नचात्रान्योन्याश्रयः, परस्परव्यावृत्तिबुद्धेः
परस्परहेतुत्वाभावात् । तद्विशिष्टबुद्धिश्चेन्द्रियसंप्रयोगाद्विशिष्टशब्दादि-
प्रमाणाद्वा भवति । तत्र शब्देन कदाचित्किञ्चिद्विशेष्यतया भासते ।
तथानियमस्य विवक्षा नियामिका । उभयथाऽपि प्रतीतौ परस्पर-
व्यावर्तकत्वाविशेषे कथं विशेषणविशेष्यभावभेद इत्यत्राह —–—यश्चेति ।
 
भावप्रकाशः
 
विशेषो व्यावर्तकः धर्मी च स्वगतधर्मस्य आश्रयान्तरगतधर्माच्यवच्छेदक
इति विशेषशब्दवाच्यः' इति श्रुतप्रकाशिकायां धर्मिणा धर्मस्सविशेष
इत्यस्य घटस्य शौक्लयमित्यादिव्यधिकरणस्थलमेवोदाहरणं विवक्षितमिति
दर्शितं । तेन ज्ञानत्वव्यापकं किञ्चिदवच्छिन्नविशेष्यता कत्वमित्यव
सविशेषवस्तुविषयत्वात्सर्वप्रमाणानाम्' इति भाष्यस्यार्थः। वस्तुशब्दस्य
प्रथममेव वस्तु प्रतीयमानं सकलेतरव्यावृत्तमेव
 
6
 
विशेष्यपरत्वात्,
 
6