2025-01-21 07:35:57 by ambuda-bot
This page has not been fully proofread.
S
74
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[ जडद्रव्य
विरोधः । स्वोत्पादकत्वादाविव पौर्वापर्यादिवैघट्याभावात् । किं-
च स्वलक्षणादीनां जात्यादीनां च संवृतिसिद्धानां निर्धर्मक-
त्वेऽपि कथञ्चिदभिलापार्हत्वं त्वयापि ग्राह्यं; अन्यथा तत्त-
त्संव्यवहारेण कथादिप्रवृत्त्ययोगात् । अतो निर्धर्मकं शब्दवाच्यं
न भवति इति स्वसिद्धान्तविरोधः स्ववचनव्याघातश्च ।
आस्तामेतत्- '* समानाधिकरणस्येव व्यधिकरणस्यापि
-
1
आनन्ददायिनी
स्वस्य स्वजनकत्वमपि स्यादित्यत्राह स्वोत्पादकत्वादाविति । तत्र हि
सत्त्वासत्त्वयोर्विरोध इति भावः । ननु धर्मे स्वपरनिर्वाहकत्वमसिद्ध-
मित्यत्राह——किं चेति । ननु कल्पितधर्ममादाय धर्मे व्यवहार इत्य-
त्राह — जात्यादीनामिति । तत्रापि धर्मकल्पनेन व्यवहारेऽनवस्था
स्यादिति भावः । अतो निर्धर्मकमिति । कल्पितधर्ममादाय शब्द-
वाच्यत्वे शुक्तयादेरपि रजतादिशब्दवाच्यत्वप्रसङ्गे लोकव्यवहारविरो-
वाद्वयवस्था न स्यादिति स्वरूपेणापि वाच्यत्वं स्वलक्षणं वाच्यमिति
सिद्धान्तविरोधोऽपीति भावः । स्ववचनेति । निर्धर्मकं शब्दवाच्यं न
भवतीति निर्धर्मकशब्दवाच्यत्वेन तदवाच्यत्वप्रतिपादनात् स्ववचन-
व्याघात इत्यर्थः । ननु प्रतिबन्दीमात्रमनुत्तरमित्यत्राह—आस्तामिति ।
भावप्रकाशः
1
धर्मी विशेष इति मूलं विवृणोति - ' * समानाधिकरणस्येत्यादिना । एतेन
ननु विशेषा हि निर्विशेषाः तत्कथं निर्विशेषवस्तुनोऽप्रामाणिकत्वं ?
उच्यते - धर्मेण धर्मी सविशेषः धर्मिणा च धर्मस्तविशेषः । कस्य
चिद्धर्मभूतं धर्मि वा यन्न भवति तत् प्रामाण्यशून्यमिति हि ग्रन्थार्थः I