This page has not been fully proofread.

सरः ]
 
द्रव्यातिरिक्तधर्माक्षेपपरिहारः
 
73
 
सर्वार्थसिद्धिः
 
त्वयापि हेतुसाध्यादीनां पक्षधर्मत्वादिधर्मास्स्वीकार्याः । अन-
वस्था च कथञ्चिदुपशमनीया । स्वीकृतं च संवेदन संवेदने
शब्दशब्दादौ स्वपरनिर्वाहकत्वं । न चात्र कर्मकर्तृ-
आनन्ददायिनी
 
त्वयापीति । स्वपरनिर्वाहकत्वं त्वयापि क्वचित्स्वीकार्यमित्याह--
स्वीकृतं चेति । संवेदनसंवेदनं ज्ञानमात्रविषयकं ज्ञानं । आदि-
शब्देन सर्वमित्यादिशब्द उक्तः । देवदत्त आत्मानं पश्यती-
त्यादौ कर्मकर्तृभावदर्शनान्न विरोध इत्याह-- न चात्रेति । ननु तर्हि

 
भावप्रकाशः
 
सामान्यं तर्हि तद्रहितेषु रूपरसादिषु कथं निर्वाह : ? तव वा कथं
उपलक्षणरहितेषु लक्षणमेवोपलक्षणमिति चेत्; किं तत् प्रतीति-
रिति चेन्न; आत्माश्रयप्रसङ्गात्, अस्माकं तु तदेवैकीकरणमिति
नोपद्रवः' इति ॥ शुक्लरूपाद्यवगाहिनो ज्ञानस्य स्वयंप्रकाशतया
विषये प्रकारतया भानेन शुक्लरूपाद्यवगाहि सर्वप्रतीतिषु तस्येतर-
व्यावर्तकता । एवं कालस्यापीतरव्यावर्तकत्वं बोध्यम् । तदुक्तं व्यासार्यैः
(जिज्ञासाधिकरणे)-
 
.
 
1
 
ननु कथं सर्वप्रमाणानां सविशेषविषयत्वं ? नहि गन्धा-
दिग्राहि प्रमाणं गन्धादिकं साश्रयमावेदयति ; नैवं; आश्रय एव
विशेष इति नियमाभावात् । संविदोऽपि सर्वविशेषणतया सर्वार्थ-
वैशिष्ट्यं ह्युपपद्यते । अयं गन्धोऽनुभूयते इति कालादिविशेषाव
च्छिन्नतयैव गन्धादिप्रतीतेश्च सविशेषत्वोपपत्तिः' इति । ' * नचा-
त्रेति । अत्र - रूपादे : ज्ञानप्रकारत्वे ज्ञानधर्मित्वे च ॥ भवति पुनस्तस्य