This page has not been fully proofread.

72
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
तत्वमुक्ताकलापः
 
[जडद्रव्य
 
तन्निष्कर्ष प्रयोगेष्वपि भवति पुनस्तस्य धर्मी
 
विशेषः ॥ ९ ॥
 
सर्वार्थसिद्धिः
 
" इदमित्थमिति हि सर्वा प्रतीतिः" इति भाष्या-
दिविरोध इत्यत्राह - तन्निष्क पप्रयोगेष्वित्यादि । अयं भावः-
उदाहृतेषु 1 * नियतानियतनिष्कर्षकशब्देषु जातिगुणादेः
प्रधानतया निर्देशेपि सन्ति केचिद्यथाप्रमाणमित्थम्भावाः
आनन्ददायिनी.
 
मित्यत्राह—अयं भाव इति । कल्पितधर्ममादाय सधर्मकत्वप्रतत्युि -
पादनेऽपीदृशदोषाः स्युरिति त्वयापि कथंचित्परिहार्या
 
भावप्रकाशः
 
इत्याह-
 
1* नियतानियतनिष्कर्षकशब्देष्विति - पृथिव्याद्यपेक्षया नियत
निष्कर्षका जातिगुणक्रियाशब्दाः । अनियत निष्कर्षकाः शुक्लादिशब्दाः ।
एतच्च बुद्धिसरे (८१,८५लो) विवेचयिष्यते । * सन्ति केचिदित्यादि ।
तदुक्तं तत्त्वटीकायाम्

 

 
सजातीयविजातीयव्यावृत्तस्वस्वभावतः ।
 
इत्थमित्येव गृह्यन्ते शब्दगन्धादयोऽपि हि ॥
 
इति । अयमाशयः — शुक्लरूपादिषु निरवयवेषु अवयवसन्निवेशविशे-
षात्मकसंस्थानाभावेऽपि ' संस्थानं नाम स्वासाधारणं रूपमिति यथा-
वस्तुसंस्थानमनुसन्धेयम्' इति भाष्योक्तदिशा शुक्लरूपादिमात्रावगाहि
ज्ञानमेव संस्थानं । उक्तं च न्यायसिद्धाञ्जने -' ननु यदि संस्थानमेव