This page has not been fully proofread.

सरः]
 
द्रव्यातिरिक्तधर्माक्षेपपरिहारः
 
सर्वार्थसिद्धिः
 
71
 
'* विशेष्यपर्यन्तोक्तौ तथा स्यात् । क्वचिद्रुणमात्रविषयेषु शुक्ला
दिशब्देषु भावप्रधानेषु कयोरित्यादिषु त्वतलाद्यन्तेषु जाति-
गुणः क्रियेत्यादिषु च वाच्यानां तत्तद्धर्माणामिदन्त्वेन
निर्देशादित्थम्भावसापेक्षत्वे अनवस्था ;
अनपेक्षत्वे तु
 
आनन्ददायिनी
 
ननु धर्माणां धर्मान्तराङ्गीकारे अनवस्था ; स्वस्यैव स्वनिष्ठत्वे आत्मा-
धर्मिणश्च धर्मापेक्षया धर्मत्वेऽन्योन्याश्रयः ; परस्परव्यावर्त-
कत्वे कर्मकर्तृविरोध इति तन्निष्कर्षकप्रयोगे धर्मी विशेष इत्यनुपपन्न-
 
श्रयः ;
 
भावप्रकाशः
 
सम्बन्धस्यैव अनुवृत्तिपदार्थत्वकथनेन तस्य संसर्गतया मानस्यैव तेन
स्वरसतः प्रतीतेः । पूर्वव्यक्तिनिष्ठता --- पूर्वव्यक्तिसम्बन्ध एव । भाष्ये
गोत्वादेरनुवृत्तिधर्मविशिष्टता — अनेकव्यक्तिसम्बन्ध एव । वस्तुतो
घर्मधर्मिभावस्य गोत्वानुवृत्त्योस्सत्त्वेन तथा व्यपदेशो भाष्ये श्रुतप्रकाशि-
कायां च न तु ताद्र्प्येण ज्ञाने भानतात्पर्येण इति ध्येयम् ।
 
'* विशेष्यपर्यन्तोक्तावित्यादि -- विशेषणत्वं विशेष्यस्य स्वेतर -
व्यावृत्तिधीहेतुत्वं । यस्य विशेषणत्वमात्रं तस्य तु स्वत एव स्वेतर -
व्यावृत्तता । विशेष्यस्यैवेतरव्यावर्तकधर्मापेक्षा इति चास्तु तथाप्यद्रव्ये
संस्थानरूपजातेरसंभवेन तद्विशेष्यकप्रतीतिषु तदितरव्यावर्तकधर्मा-
भावेन ' प्रथममेव वस्तु प्रतीयमानं सकलेतरव्यावृत्तमेव प्रतीयते '
इति भाप्यविरोध इति भावः । * शुक्लादिशब्देष्विति —— शुक्लादिप्रत्यक्षे
च आश्रयविनिर्मोकेण रूपभानं न संभवतीति तत्त्यागः । इदं शब्द-
गन्धादिप्रत्यक्षस्याप्युपलक्षणम् ।
 
2