This page has not been fully proofread.

70
 
70
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
ननु गौः शुक्ल इत्यादि-
 
सर्वार्थसिद्धिः
 
आनन्ददायिनी
 
केषां चिद्धर्माणां स्वेनैव विशेषः तथात्वेऽपि गौरित्यादिजातिशब्देषु
धर्मिपर्यन्तेषु शुक्लादिशब्देषु व्यक्तेर्जातिर्गुणश्च जातेर्व्यक्त्यादिश्च
वैशिष्ट्यप्रतियोगित्वादिना भासतां । यत्र गुणमात्रविषयक शुक्लशब्दः
यत्र वा भावप्रधाननिर्देशो द्वे कयोरित्यादिषु बहुवचनप्रसङ्गेन द्वि-
कत्वपरेषु त्वतलाद्यन्तेषु गोत्वगोता दिशब्देषु जातिरित्यादिशब्देषु
च प्रधानतया गुणादीनां निर्देशः तत्र किञ्चिद्धर्मवत्त्वाभावे प्राधा-
न्यायोगात्तदन्यत्वेऽनवस्थाप्रसङ्गात्तदभावे एकस्य विशेषणविशेषतया
प्रतीत्ययोगादप्रसिद्धान्तः । प्रमेयत्वादिकं च पक्षसममिति तत्र धर्मा
भावेsपि गत्यन्तराङ्गीकारे सर्वत्र तथाऽस्त्विति शङ्कते — नन्विति----
 
-
 
भावप्रकाश
 
'जात्यादेरेवेति – स्वपरनिर्वाहकत्वाद्व्यावृत्तिरूपधर्मान्तरनिरपेक्षस्य प्रति-
योगिनिरपेक्षस्यैव चेति भावः' इति ; उपसंहारभाष्ये च 'अतो वस्तुसंस्था-
नरूपजात्यादिलक्षणभेदावशिष्टविषयमेव प्रत्यक्षं ' इति । न च ' अतो-
द्वितीयादिपिण्डग्रहणेषु गोत्वादेरनुवृत्तिधर्मविशिष्टता संस्थानिवत् संस्था -
नवच्च सर्वदैव गृह्यते' इति भाष्यविवरणावसरे ' पिण्डधर्मस्संस्थानं तद्ध-
र्मोऽनुवृत्तिरिति धर्मिधर्मभावरूपसाम्यनिबन्धनं च दृष्टान्तद्वयोपा-
दानं' इति । तत्पूर्वं ' अनेकव्यक्तयन्वयरूपा ह्यनुवृत्तिः सा चान्वयिनः
पदार्थस्य पूर्वव्यक्तिनिष्ठतापरामर्शेनैव द्वितीयादिषु गृह्यते ' इति च व्यासा-
र्यसूक्तौ निर्विकल्पकसविकल्पकयोरुभयोरपि गोत्वे गोराधेयतासम्बन्धेन
प्रकारतया भानमिति प्रतीयते ; स्पष्टं चेदं निर्विशेषप्रामाण्यव्युदासवादे
इति वाच्यम्; अनेकव्यक्तयन्वयरूपा ह्यनुवृत्तिरित्यनेन अनेकव्यक्ति-