2025-01-21 07:35:56 by ambuda-bot
This page has not been fully proofread.
सर:]
द्रव्यातिरिक्तधर्माक्षेपपरिहारः
सर्वार्थसिद्धिः
1
69
69
स्वान्यनिर्वाहकत्वं—–स्वपरव्यवहारादिव्यवस्थापकत्वं । *यत्र
ह्यनवस्थाभयाद्धर्मान्तरं नेष्यते, तत्र निमित्तान्तरनिरपेक्षौ तद्धी-
व्यवहारौ । यथा गोशब्दस्य व्यक्तिवृत्तावित्थम्भावभूतं गोत्वं
निमित्तं गोत्वे तु न निमित्तान्तरमपेक्षते आनन्त्यव्यभिचार-
रूपानुपपत्त्यभावात् । एवं शुक्लादिशब्देष्वपि ।
आनन्ददायिनी
धर्माणां प्रतीतिरित्यनुभवानुसारात् क्वचिद्धर्मान्तरेण सधर्मकत्वं नाप-
ह्नोतुं शक्यमिति भावः । सदृष्टान्तमुपपादयति —–यत्र हीति । नन्वेवं
धर्मे धर्मान्तरनियमाभावे यस्य धर्मत्वादेर्न धर्मान्तरं तस्य व्युत्पत्त्याद्य-
भावे शब्दवाच्यत्वादिकं न स्यादिति चेन्न तत्र धर्मान्तराभावेऽपि
स्वस्यवै स्ववृत्तितया प्रमेयत्वादिवद्विशिष्टबुद्धयादिविषयत्वेन वाच्य-
त्वादिसंभवात् । नच सिद्धान्ते गोत्वस्य संस्थानरूपतया आनन्त्य -
व्यभिचाराद्यनुपपत्तिः; तथाऽपि सौसादृश्यरूपस्यैकस्य संभवादिति
भावः । एवं शुक्लादिशब्देष्वपीति - ननु शुक्लादीनामनेकत्वान्न गोत्वा-
दिन्याय इति चेन्न ; शुक्लत्वस्यैकस्योपाधेर्वक्तुं शक्यत्वात् । ननु यदि
भावप्रकाशः
यत्र हत्यिादि। उक्तं च भाष्ये- 'प्रथममेव वस्तु प्रतीयमानं सकलेतर -
व्यावृत्तमेव प्रतीयते । व्यावृत्तिश्च गोत्वादिसंस्थानविशिष्टतया इत्थमिति.
प्रतीतेः' इति 'तदपि जात्यादिविशिष्टवस्तुनः प्रत्यक्षविषयत्वात् जात्यादेरेव
प्रतियोग्यपेक्षया वस्तुनस्स्वस्य च भेदव्यवहारहेतुत्वाच्च दूरोत्सारितं । संवे-
दनवत् रूपादिवच्च परत्र व्यवहारविशेषहेतोः स्वस्मिन्नपि तद्व्यवहारहेतुत्वं
युष्माभिरभ्युपेतं भेदस्यापि संभवत्येव ' इति । अत्र श्रुतप्रकाशिका -