This page has not been fully proofread.

68
 
सव्याख्यसर्वार्थसिद्धिसहिततत्व मुक्ताकलापे
 
[जडद्रव्य
 
तत्त्वमुक्ताकलापः
 
मतिमथने स्वान्यनिर्वाहकत्वं
 
सर्वार्थसिद्धिः
 
धर्मत्वादिधर्मास्स्वीकार्याः । अन्यथा अनुमानासिद्धौ क्षणभ
ङ्गादिसाधनायोगात् । अतिमथने-'* अत्यन्तचर्चायाम् । *यद्वा
स्फुटमतिमथने विशदबुद्धया सावधानं विमर्शे सतीत्यर्थः ।
आनन्ददायिनी
 
अन्यथेति —पक्षधर्मत्वादीनां कल्पितत्वेऽनुमानस्याभासत्वात् क्षणभङ्गा-
दिसाधनमपि न स्यादित्यर्थः । अत्यन्तचर्चायामिति । अयं भावः-
धर्मधर्मिभावमपलपतः को भावः किमनुभव एव नास्तीति ; उत
सत्यपि तस्मिन् अनवस्थादुस्स्थतया न सद्विषयत्वमिति । नाद्यः ;
वाङ्मात्रेण प्रतीतिमात्रापह्नवप्रसङ्गात् । न द्वितीयः ; स्वपरनिर्वाहक-
त्वेऽनवस्थाया एवाभावात् इति । तर्हि प्रथमत एव स्वपर निर्वाहोऽस्तु
किं धर्ममात्रेणापीति शङ्कां परिहर्तुं ' स्फुटमतिमथने ' इत्येकनिर्वाह-
प्रमाणपरतया योजयति —– यद्वेति । स्फुटा चासौ मतिश्चेति स्फुटमतिः ।
मतिरेव वस्तुसद्भावे भवति शरणं । स्वान्यनिर्वाहकतया केषाञ्चिदेव
 
भावप्रकाशः
 
1
 
रीत्या न्याय्यत्वादिति भावेनाह — '* अतिचर्चायामिति । गौरित्यादौ
गोत्वादेर्धर्मिणा धर्मवत्त्वस्य स्फुटताया उक्तरीत्या असम्भवमभिप्रेत्य
स्फुटमतिमथने इत्येकमेव पदमित्यभिप्रेत्याह - 2 * यद्वेति । * विमर्शे
सतीति । विमर्शो विचारः । स च उक्तरीत्या बोध्यः ।
 
3