2025-01-21 07:35:55 by ambuda-bot
This page has not been fully proofread.
सरः ]
द्रव्यातिरिक्तधर्माक्षेपपरिहारः
सवार्थसिद्धिः
67
यात् । न चान्यत्; अनवस्थानादेवेति चेत् तन्न, सर्वेषां
धर्माणां निर्धर्मकत्वानङ्गीकारात् । कश्चिद्धर्मोऽपि धर्मी स्फुटं ।
स्फुटदृष्टं हि नापह्नोतव्यं । त्वयापि हेतुसाध्यादिधर्माणां पक्ष-
आनन्ददायिनी
अनवस्थानादेवेति–स्वीकृतस्वीक्रियमाणधर्मवर्तिधर्मस्वीकारेऽनवस्था स्या-
दिति ;
धर्मं समर्थयन् मूर्खः तेन धर्मेण बाध्यते ।
कवाटविवरे पुच्छं प्रेरयन् जम्बुको यथा ॥
-
इति न्यायस्स्यादिति भावः । सिद्धान्ती परिहरति — तन्नेति । सर्वेषामिति
जातिगुणक्रियादिवृत्तीनामेव निर्धर्मकत्वस्वीकारादिति भावः । तेषां
च शब्दबोध्यत्वादिकमुपपादयिष्यते । स्फुटदृष्टमिति
धर्मत्वेन प्रतीयन्ते स्पष्टं जातिगुणक्रियाः ।
तत्तल्लक्षणयोगेन परस्परविलक्षणाः ॥
इति प्रतीतत्वादित्यर्थः । अपसिद्धान्तमेव द्रढयति - त्वयाऽपीति ।
भावप्रकाशः
[;
च धर्मवत्त्वेतरव्यावृत्तत्वाद्यङ्गीकारे गोवृत्ति गोत्वं गोत्ववान् गौरिति वा
गोवृत्तिगोत्ववानित्यादिर्वाऽभिलापः स्यात् ; गौरिति प्रतीतौ च गोत्वस्य
निर्धर्मकस्य भानमनुभवसिद्धं तद्विरुध्येत । परस्परधर्मवत्त्वेन इतर-
व्यावृत्तिधीस्वीकारे परस्पराश्रयप्रसङ्गश्च । किंच गवि स्वेतरतत्तेद्भद-
सामान्यं च स्वधर्मभूतगोत्वरूपं गोत्वे स्वेतरतत्तद्भेदसामान्यं च
गोत्वव्यक्तिरूपमेवेति सिद्धान्तविरोधः । तत्रापि गोत्वनिष्ठभेदस्य
गोवृत्तित्वरूपतायाः आधेयतासंबन्धेन गोरूपताया वा अङ्गीकारस्यैवोक्त-
*5