2025-01-21 07:35:55 by ambuda-bot
This page has not been fully proofread.
66
99
सव्याख्यसवधीसद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः
द्वितीये तु येन धर्मेण धर्मस्तधर्मकः सोऽपि पूर्ववद्धर्मान्तरेण
धर्मी स्यादित्यपरापरापेक्षायामनवस्था । द्वित्रादिपर्वमात्रे
विश्रम इति व्यवस्थाभावात् । धर्मत्वं च धर्माणां भावः ।
अतस्तस्यापि धर्मत्वं वाच्यं । न चैतत्तस्यात्मैव आत्माश्र
आनन्ददायिनी
विषयत्वमित्यर्थः । यावदर्शनं व्यवस्था भविष्यतीत्याशङ्कय दर्शन-
मसिद्धमित्याह द्वित्रादीति । ततश्च ----
अस्मानुपलभ्य पुनः कुर्वतो धर्मविप्लवम् ।
तव वाक्यमिदं हास्यं श्वश्रूनिर्गच्छवाक्यवत् ॥
इति न्यायस्यादिति भावः । प्रकारान्तरेणानवस्थां प्रतिपादयति-
धर्मत्वं चेति । धर्माणां भावो धर्मान्तरं न तु स्वरूपमित्यर्थः । ततः
किमित्यत्राह —— अत इति । धर्मत्वं वाच्यमिति तत्रापि धर्मत्वे धर्मत्वं
-
नाम धर्मान्तरं वाच्यभित्यर्थः । ननु सकलधर्मवर्ति धर्मत्वं स्वात्मैव ;
अन्यथा सकलधर्मवृत्तित्वव्याघातादित्यत्राह - न चेति । स्वनिष्ठत्वाभावे
सकलधर्मवृत्तित्वव्याघातवत् स्वस्य स्ववृत्तित्वेऽपि व्याघातस्स्यादित्यर्थः ।
भावप्रकाश:
सर्वत्र तात्विकधर्मधर्मिभावाङ्गीकारोऽयुक्तः सर्वप्रतीतिषु खण्डनयुक्तया
विशिष्टविषयकत्वानभ्युपगमौचित्येन तात्विकधर्मधर्मिभावासिद्ध्या निर्ध-
र्मकमेव सर्वं प्रसज्येतेति सूचितम् । मूले अभिलापादीत्यादिपदस्य इतर-
व्यावृत्तत्वादिरर्थः। धर्मो हि धर्मेण इतरव्यावृत्तिधीहेतुः । धर्मे व्यावर्तक-
धर्माङ्गीकारे तस्येतरव्यावृत्तत्त्वेन निश्चयासंभवेन तेन धर्मिणोऽपतिरव्या-
वृत्तत्वेन निर्धारणं न संभवतीति भावः । ननु गोत्वेन गोः गवा गोत्वस्य