2025-01-21 07:35:55 by ambuda-bot
This page has not been fully proofread.
सरः ]
द्रव्यातिरिक्तधर्माक्षेपपरिहारः
65
तत्त्वमुक्ताकलापः
धर्मो निर्धर्मकश्चेत्कथमिव भविता सोऽभि-
लापादियोग्यो धर्मेणान्येन योगे स च भवति
तथेत्यव्यवस्थेति चेन्न । कश्चिद्धर्मोऽपि धर्मी स्फुट-
सर्वार्थसिद्धिः
अतस्तद्भङ्गमनूद्य प्रत्याह - धर्म इत्यादिना । अयमर्थः - यस्त्वया
कश्चिद्धर्म इष्यते स निर्धर्मकस्सधर्मको वा ? आद्ये तस्य
शब्दवाच्यत्वं न स्यात् । अविशिष्टस्य व्युत्पत्त्याद्यगोचरत्वात् ।
'* सर्वधीशब्दानां विशिष्टविषयत्वं च भवतां भाष्यादिपूक्तं ।
आनन्ददायिनी
1
अयमर्थ इति-त्वयेति । परसिद्धेन पेरो बोधनीय इति न्यायान्न व्याघात
इति भावः। आद्ये इति । वाच्यत्वाभावाद्भवन्मतानुरोधेन तुच्छत्वं स्यादिति
भावः । शब्दगोचरत्वाभावे हेतुः अविशिष्टस्येति । अविशिष्टेऽपि
व्युत्पत्तिरस्त्वित्यत्राह —— सर्वधीशब्दानामिति । अविशिष्टस्य सकलप्र-
माणबाह्यतया धीगोचरत्वाभावेन व्युत्पत्तिविषयत्वाभावान्न शब्दमात्र-
भावप्रकाशः
* सर्वधीशब्दानामित्यादि ——– ज्ञानत्वव्यापकं किञ्चिदवच्छिन्न-
विशेष्यताकत्वं निरवच्छिन्नविशेष्यताकत्वाभावो वा ; संसर्गताप्रकारता
भिन्नज्ञानीयविषयतात्वव्यापकं किञ्चिदवच्छिन्नत्वं वा; शब्दत्वव्यापकं निर-
वच्छिन्नविषयत्वाप्रयोजकत्वं चेत्यर्थः । एतेन सर्वसंमतज्ञानवैलक्षण्यात्
निर्विकल्पस्य विशिष्टविषयकत्वाभावमभ्युपगच्छतामर्धवैनाशिकादीनां मते
SARVARTHA.
5