This page has not been fully proofread.

64
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
[जडद्रव्यं
 
इति । अन्येऽपि 'ग्राह्यधर्मस्तदंशेन व्याप्तो हेतुः' इति । सत्यं ; काल्प-
निकहेतुसाध्यधर्मद्वारा अनुमानप्रवृत्तिः पारम्पर्येण तु स्वलक्षण-
विश्रान्त्या भाक्तमनुमानप्रामाण्यमिति हि 'बौद्धानां रहस्यम् ।
* तत्वगत्या चतुर्विधानामपि तेषां धर्मधर्मिभावः क्षेप्यः ।
 
2
 
FFITS
 
आनन्ददायिनी
 
-
 
विद्यमानत्वादित्यर्थः । ग्राह्यधर्म इत्यादि - ग्राह्यस्य इन्द्रियग्राह्यस्य
पक्षस्य धर्मस्तदंशेन साध्येन व्याप्तो हेतुः इति न्यायकौमुदीकारादय
आहुरित्यर्थः । नात्रार्थतथात्वलक्षणं प्रामाण्यमङ्गीक्रियते ; तस्य निर्वि-
कल्पकमात्रपर्यवसायित्वात् अपितु अविसंवादित्वलक्षणं; तच्च धर्म-
धर्मिभावकल्पनयाऽप्युपपद्यते इति परिहरति सत्यमिति—–अस्मिन्
श्लोके न वैभाषिक एव पूर्वपक्षी; अपि तु चत्वारोऽपीत्याह -
चतुर्विधानामिति । नन्वयं विकल्लो विषयसिद्ध्यसिद्धिपराहत इत्याह-
 
भावप्रकाशः
 
* बौद्धानां रहस्यमिति — न्यायबिन्दौ निर्विकल्पकं प्रस्तुत्य
' तस्य विषयः स्वलक्षणं । तदेव परमार्थसत् । अन्यत्सामान्यलक्षणम् ।
सोऽनुमानस्य विषयः' इत्याद्युक्तेरिति भावः । एतच्च बुद्धिसरे (३३)
सविकल्पकदृष्टान्तेन आचार्यैरेव सम्यगुपादयिष्यते ।
 
2 * तत्वगत्येत्यादि — सौत्रान्तिकयोगाचारमाध्यामकानां प्रत्यक्षा-
भङ्ग बाह्यार्थभङ्ग सर्वशून्यत्ववादैः वैभाषिकवैलक्षण्यसत्त्वेऽपि परमार्थ -
सतोधर्मधर्मिणोर्द्वयोः कैरप्यनङ्गीकारादिति भावः ।