This page has not been fully proofread.

सरः]
 
द्रव्यातिरिक्तधर्माक्षेपपरिहारः
 
सर्वार्थसिद्धिः
 
पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः ।
अविनाभावनियमाद्धेत्वाभासाः
 
आनन्ददायिनी
 
1.
 
ततः परे ॥
 
63
 

 
हेतुबिन्द्वाख्यग्रन्थे । पक्षधर्म इत्यादि — पक्षधर्मः – साध्याश्रयस्य
पक्षस्य पर्वतादेः धर्मः । तन्निष्ठो धूमादिरिति यावत् ।
तदंशेन – पक्षांशेन तस्य पक्षस्यांशेन विशेषणेन साध्येन व्याप्तः ।
त्रिविधेन—कार्यस्वभावानुपलब्धिभेदेन । अविनाभावस्य नियमात्—
 
-
 
भावप्रकाश:
 
उपलब्धिलक्षणप्राप्तिरुपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च । यः
स्वभावः सत्स्वन्येषूपलम्भप्रत्ययेषु यत्प्रत्यक्ष एव भवति स स्वभावः ।
स्वभावः स्वसत्तामात्रभाविनि साध्यधर्महेतुः । यथा वृक्षोऽयं शिंश-
पात्वादिति । कार्यं यथाऽग्निरत्र धूमादिति । अत्र द्वौ वस्तुसाधनौ । एकः
प्रतिषेधहेतुः इति । अत्र हेतुविन्दौ तदंशेन व्याप्त इत्यनेन ' सपक्ष एव
सत्वं असपक्षे चासत्त्वमेव निश्चितं' इति न्यायबिन्दुक्तं रूपद्वयं संगृहीतं ।
बाधः परं प्रत्येकं न दोषः व्यभिचारासिद्धयोरन्यतरेण गतार्थत्वात् ।
बाधस्थले पक्षान्तर्भावेन व्याप्तेरसंभवाच्च । एकत्र बाधाभावनिश्चयेऽपि
पक्षतावच्छेदकाक्रान्तानेकव्यक्तिषु बाधाभावनिश्चयस्याशक्यत्वाच्च ।
अतोऽबाधितत्वासत्प्रतिपक्षितत्वे परित्यक्ते ।
 
--
 
* ततः पर इति — न्यायबिन्दौ – एवं त्रयाणां रूपाणामेकै-
कस्य द्वयोर्द्वयोवा रूपयोरसिद्धौ सन्देहे च यथायोगमसिद्धविरुद्धानैका-
न्तिकास्त्रयो हेत्वाभासा इत्युपसंहारे संक्षेपः ।