This page has not been fully proofread.

62
 
सव्याख्यसर्वार्थासिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
[जडद्रव्य
 
शात्' इत्यादि 'अनिरूढप्रायं स्यात् । ननु अनुमानं प्रमाणमि-
च्छन् न धर्मधर्मिभावं बाधितुमर्हति; तस्य हेतुसाध्यधर्माश्रयावश्यं
भावात् ; आह च धर्मकीर्तिः * हेतुविन्दौ—
 
आनन्ददायिनी
 
नमपासद्धान्त इति शङ्कते नन्विति । हेतुर्धूमादिः साध्यं वयादिः त एव-
धर्मः तदाश्रयः पर्वतादिः पक्षः । धर्मकीर्तिः - बौद्धविशेषः । हेतुविन्दौ-
 
1
 
भावप्रकाशः
 
* अनिरूढप्रायं स्यादिति — धर्मधर्मिणोर्भेदासाधने स्वभिन्न-
धर्मशून्यत्वादेर्ब्रह्मण्यङ्गीकारेऽपि ब्रह्म निर्धर्मकं निर्गुणं इत्येव पर्यवसानं
स्यात् । तच्चोदाहृतसूत्रप्रणेतुर्व्यासस्यानभिमतं । ' यदा पश्यः पश्यते
रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय
निरञ्जनः परमं साम्यमुपैति' इति ब्रह्मतद्विग्रहगुणानां मुक्तयुपायज्ञान-
विषयत्वबोधकाथर्वणश्रुत्यादिस्वारस्यविरुद्धं च । अतस्तत्साधनं दोषपरि-
हरणं चावश्यक मिति भावः । एतेन ' अथातो ब्रह्मजिज्ञासा' इत्यत्र
धर्मविशिष्टस्यैव ब्रह्मणो जिज्ञास्यत्वं द्रव्याद्रव्यविभागस्य प्रयोजनं
व्याससंमतिश्च सूच्यन्ते ।
 
2.
 
2* हेतुबिन्दाविति — अत्र न्यायबिन्दौ धर्मकीर्तिवाक्यान्यनु-
सन्धेयानि – ( सू ३०) ' त्रैरूप्यं पुनः लिङ्गस्यानुमेये सत्त्वमेव ।
सपक्ष एव सत्त्वं । असपक्षे चासत्त्वमेव निश्चितं । अनुमेयोऽत्र जिज्ञा-
सितविशेषो धर्मी । साध्यधर्मसामान्येन समानोऽर्थस्सपक्ष: । नस-
पक्षोऽसपक्षः । ततोऽन्यस्तद्विरुद्धस्तदभावश्चेति । त्रिरूपाणिच
त्रीण्येव च लिङ्गानि अनुपलब्धिः स्वभावकार्ये च । तत्रानुपलब्धि-
र्यथा- न प्रदेशविशेषे क्वचिद्भटः उपलब्धिलक्षणप्राप्तस्यानुपलब्धोति ।