This page has not been fully proofread.

सरः ]
 
द्रव्यातिरिक्तधर्माक्षेपपरिहारः
 
सर्वार्थसिद्धिः
 
61
 
एवमेकाश्रयानेकदृष्टावन्यतरनिवार्थिन पुनरपि धर्मधर्मिभाव-
 
भङ्गमुखेन प्रवृत्तौ प्रतिहन्येते । अन्यथा ' ' अन्तस्तद्धर्मोपदे-
आनन्ददायिनी
 
अविद्यमानाभेदेऽपि तदक्षागोचरत्वतः ।
स्पृशतोऽप्यस्ति सा बुद्धिः द्रव्यं तत् स्पर्शनं यदि ॥
नायं घट इति ज्ञानं सर्व (वर्ण) प्रत्यवभासनात् ।
 
इत्यादीनि बौद्धपठितदूषणान्युद्धतानि भवन्ति । इदानीं तु प्रमेयदूषणो-
द्धारः क्रियते इति सङ्गतिं दर्शयन् द्रव्यनिराकरणवादिनः पूर्वं
प्रधानतया प्रस्तुतत्वात् तद्द्व्यबाधकयुक्तीनां पृथगुपन्यासः तत्समा-
धानं च राद्धान्तिना वक्तव्यं न चात्र तत्क्रियते ; धर्ममात्र
पर्यवसानाद्वक्ष्यमाणयुक्तीनां ; धर्ममात्रदूषणं च तच्छून्यश्लोके स
युक्तिकमुपपादयिष्यते । अतः कथमुत्तरश्लोकारम्भ इति शङ्काद्वयं
पौनरुक्तयं च परिहरन्नवतारयति एवमेकाश्रयेति धर्मधर्मिभावोऽत्र
निराक्रियते न धर्ममात्रं । उत्तरत्र वृत्तिविकल्पेन अत्र तु धर्मधर्मि
भावभङ्गमुखेन इति न कृत्वाकरणं नापि पौनरुक्तयमिति भावः । धर्म-
धर्मिभावस्योपयोगमाह---अन्यथेति — धर्मधर्मिभावाभावे ' अन्तस्तद्ध-
र्मोपदेशात्, इत्यादेरयोगादिति भावः । बौद्धानां धर्मधर्मिभावखण्ड-
 
1
 
-
 
भावप्रकाशः
 
* अन्तस्तद्धर्मोपदेशादित्यादि । आदिपदेन ' विवक्षितगुणो-
पपत्तेश्च' 'अदृश्यत्वादिगुणको धर्मोक्तेः' इत्यादिपरिग्रहः । अत्रान्तस्त-
द्धर्मोपदेशादिति सूत्रोपादानं ' य एषोऽन्तरादित्ये हिरण्मयः पुरुष इति
श्रुत्युक्तदिशा भगवतो दिव्यमङ्गलविग्रहवत्त्वेऽपि अकर्मवश्यत्वप्रख्या-
पनपूर्वकं दिव्यमङ्गलविग्रहगुणानामपि मुक्तयुपायज्ञानविषयत्वबोधनाय ।