2025-01-21 07:35:53 by ambuda-bot
This page has not been fully proofread.
58
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
* तथा बाद्योऽपि
आनन्ददायिनी
[जडद्रव्य
तथा
इति त्वदुक्तेरयोगात् । अनीलादिरूपत्वे इत्युत्तरत्र छेदः ।
चाक्षुषमेवेदं ज्ञानं इति व्यवस्थासिद्ध्यर्थं हेत्वाकारोऽप्यपेक्ष्यः । एवं
फलाकारोऽप्यूह्यः । बाह्योऽपि — घटपटादिरपीत्यर्थः ।
भावप्रकाशः
प्रतिनियमः । आलोकात्सहकारिप्रत्ययात् स्पष्टार्थता । तत्र ज्ञानज-
न्मनि समनन्तरप्रत्ययो विज्ञानमुपादानकारणं । आलम्बनप्रत्ययोऽर्थः
सहकारिकारणम् । अर्थजन्मनि सोऽर्थ उपादानकारणं । तज्ज्ञानं
सहकारिकारणं । ज्ञानार्थयोस्स्वभावत एव विषयविषयिभावः । जन्यज-
नकभावोऽपि स्वभावात्मक एव । स च सम्बन्ध्यनतिरिक्त इति तन्मतम् ॥
1* तथा बाह्योऽपीति—–भिन्नस्समेतीत्यनुषङ्गेणान्वयः । भिन्नैः
रूपस्पर्शादिभिः ज्ञानस्यार्थेन अधिपत्यादिना च स्वभावाख्यसम्बन्धवत्
धर्मस्य धर्मिणापि स्वभावाख्यसम्बन्धाङ्गीकारेऽपि ज्ञानस्यार्थाधिपत्यादि -
भिरिव धर्मधर्मिणोरप्यत्यन्तभेदो दुस्त्यज एवेति भावः । तदाह वाच -
स्पतिः सविकल्पकप्रत्यक्षत्वसमर्थने तात्पर्यटीकायाम्-
' अपि च रूपविज्ञानं विषयग्रहणधर्मं नानापरमाणुविषयं न
परमाणुस्वभावः । तत्स्वभावत्वे वा तेषां सर्वान् प्रत्यविशेषात् सर्वैरेव
ते परमाणवो विदितास्स्युः । नचासंबद्धा एव स्वज्ञानेन रूपपरमाणवो
विषयास्तस्येति वाच्यम्; असंबद्धस्य विषयत्वेऽतिप्रसङ्गात् । स्वभाव
एवार्थज्ञानयोः सम्बन्धो यदर्थो विषयो ज्ञानं च विषयति चेत् ; हन्त
उपाध्युपाधिमतोरपि स्वभाव एव सम्बन्धोऽस्तु तथापि विज्ञानार्थवत् न