2025-01-21 07:35:53 by ambuda-bot
This page has not been fully proofread.
सरः]
द्रव्यसाधनम्
सर्वार्थसिद्धिः
'* वेद्यहेतुफलाकारैर्भिन्नैरेका समेति धीः ।
आनन्ददायिनी
55
57
त्वयाप्येकस्य प्रामाणिकानेकाकारोऽप्यभ्युपगत इत्याह-वेद्येति ।
एका —— बुद्धिः वेद्यस्य घटस्य हेतोश्चक्षुरादेः फलस्य चोपादानादेराकारैः
समेतीति—संबध्नातीत्यर्थः ; तथाहि ——— बाह्यार्थवादिना त्वयाऽप्ययं घट
इति ज्ञानस्य घट एव विषयो नान्यदिति व्यवस्थासिद्ध्यर्थं वेद्यस्य
घटस्याकारो ज्ञानेऽङ्गीकरणीयः । अन्यथा -
धियो नीलादिरूपत्वे बाह्योऽर्थः किं प्रमाणकः ।
धियोऽनीलादिरूपत्वे स तस्यानुभवः कथम् ॥
भावप्रकाशः
'*वेद्यहेत्वित्यादि — अत्र धीः - निर्विकल्पकज्ञानं । हेतुः - अधि-
पत्यादिकं । वेद्यः उत्तरोऽर्थक्षणः । फलं — विकल्पज्ञानं तन्मूला
प्रवृत्तिविषयप्रदर्शनरूपा प्राप्तिश्च । उक्तं च न्यायबिन्दुटीकायां ---
'निश्चयेन च तज्ज्ञानं नीलसंवेदनमवस्थाप्यमानं व्यवस्थाप्यं' इति .
"
यस्मात्प्रत्यक्षबलोत्पन्नेनाध्यवसायेन दृष्टत्वेनार्थोऽध्यवसीयते नोत्प्रे-
क्षितत्वेन । दर्शनं चार्थसाक्षात्करणाख्यं प्रत्यक्षव्यापारः उत्प्रक्षणं
तु विकल्पव्यापारः । तथाहि ——–परोक्षमर्थं विकल्पयन्त उत्प्रेक्षा-
महे न तु पश्याम इत्युत्प्रेक्षात्मकं विकल्पव्यापारमनुभवादवस्यन्ति ।
तस्मात्स्वव्यापारं तिरस्कृत्य प्रत्यक्षव्यापारमादर्शयति । यत्रार्थे प्रत्यक्ष-
पूर्वको ऽध्यवसायस्तत्र प्रत्यक्ष केवलमेव प्रमाणं " इति च । अधि-
पतिसहकार्यालम्बनसमनन्तरप्रत्ययाश्चत्वारो विज्ञानोत्पत्तिहेतवः। तत्र हि-
नीलाभासस्य हि चित्तस्य नीलादालम्बनप्रत्ययान्नीला कारता । सम-
नन्तरप्रत्ययात्पूर्वविज्ञानाद्बोधरूपता । चक्षुषोऽधिपतिप्रत्ययाद्रूपग्रहण-