2025-01-21 07:35:53 by ambuda-bot
This page has not been fully proofread.
56
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
1
[जडद्रव्य
मिथो (नि) दर्शनेन साधने मिथस्संश्रयात् । निदर्शनमात्रेण
निश्शेषनिह्नवप्रसङ्गाच्चेति । तथाप्येकमनेकस्वभावमिति व्याह-
तमिति चेन्न, स्वरूपभेदस्यानभ्युपगमात्। धर्मभेदस्याविरुद्धत्वात्।
य
आनन्ददायिनी
सिद्धसूर्यालोकेऽन्यत्र सिद्धजलत्वारोपात् तथा वीचिकाप्युपपन्ना । नचात्र
तन्नयायो वक्तुं शक्यः ; कापि (धी) रूपादिभेदस्यानभ्युपगमादिति
भावः । नंनु नीलादिनिदर्शनेन मरीचिकायाः मिथ्यात्वं साध्यता-
मित्यत्राह——मिथ इति । निदर्शनमात्रेणेति स्वप्नादिप्रत्ययनिदर्शन-
मात्रेण स्वलक्षणमात्रस्यापि निह्नवप्रसङ्गादित्यर्थः । ननु रूपवत्त्वस्पर्श-
वत्त्वयोः प्रतियोगिभेदाद्भेदो वाच्यः ; ताभ्यां च धर्मिण ऐक्येऽपि
धर्मिभेदस्स्यादिति शङ्कते—तथापीति । स्वरूपस्यैकत्वात्तदभिन्नयो
रूपवत्त्वस्पर्शवत्त्वयोर्भेदाभावान्न विरोध इत्याह — नेति । धर्मभेदस्येति
नहि मशकमातङ्गभेदवद्रूपस्पर्शादिभेदस्तदाश्रयाभेदविरोधीति भावः ।
भावप्रकाश:
एतावता परमतभङ्गोक्तरीत्या बुद्धोपदिष्टक्षणभङ्गप्रत्यक्षार्थभङ्गबाह्यार्थ-
भङ्गधर्मधर्मिभावभङ्गादिषु क्षणभङ्गधर्मधर्मिभावभङ्गद्वयाङ्गीकर्तुः वैभाषि-
कस्य मते वस्तुस्थैर्यमित्यादिना क्षणभङ्गनिरासकत्वेन या प्रत्यभिज्ञा
प्रमा वक्ष्यते सैव धर्मधर्मिभावभङ्गभञ्जनत्युिपपादितं । संभावितान्यथा
सिद्धिशिक्षणं च कृतम् । अथ सिद्धान्ते वैभाषिकाक्षेपं परिहर्तुमनुवदति-
* तथापीत्यादिना । वैभाषिकमते वस्तुस्वभावस्य वस्तुनश्चाभेदेन वस्तूनां
क्षणिकतया न व्याहतिः । स्थिरद्रव्यवादसिद्धान्ते च व्याहतिरिति भावः ।