This page has not been fully proofread.

सरः ]
 
द्रव्यसाधनम्
 
55
 
सर्वार्थसिद्धिः
 
णाद्यधीनत्वात् तदुत्पाद्यबुद्धिभेदस्य तत्कारणत्वाभावाद्द्यो-
पि परस्परप्रतीतिनिरपेक्षप्रमाणसिद्धत्वाच्च । एवमुपाधिभेदैरेक-
स्मिन्नेव र्हस्वदीर्घत्वदर्शनान्यपि नेतव्यानीति । अत्रादि-
शब्देन पूर्ववत्संशयाद्यसंभवो नीलपीतशीतोष्णमधुराम्लादि
भेदासंभवश्च गृह्यते । न हि नीलादिभेदेष्विन्द्रियभेदोपाधिकत्वं
शक्यं वक्तुं ; रूपादिभेदमिथ्यात्वे तदन्तःपातिनीलादिभेदोऽपि
मरीचिकावचिकान्यायेन मिथ्यैव स्यादिति चेन्न ; असिद्धस्या-
सिद्धेन दुस्साधत्वात् ।
 
आनन्ददायिनी
 
परस्परजन्यजनकभावे परस्परप्रतीतिसापेक्षप्रतीतिकत्वे (वा) नान्योन्याश्रय
इति भावः । एवमुपाधिभेदैरिति यद्यप्येकमेव वस्तु ह्रस्वदीर्घत्वबुद्धि-
विषयः ; न चात्र ह्रस्वदीर्घत्वे पारमाणे स्त; परिमाणद्वयाभावात् ;
तथापि निरूपकभेदाधीनन्यूनाधिकभावः परिमाणेऽस्तीति तत्रापि
विषयभेद एवेति भावः । पूर्ववदिति – – ज्ञाताज्ञातभिदाभावादित्यर्थः ।
ग्राहकभेदेन रूपरसादिबुद्धिभेदोपपादनेऽपि ग्राहकभेदाभावान्नील-
पीतादिधीभेदो न स्यादित्याह —– नीलपीतेति । नीलपीतयोश्चक्षुरेके-
न्द्रियग्राह्यत्वात् शीतोष्णयोस्त्वगेकग्राह्यत्वात् मधुराम्लयो रसनैके-
न्द्रियग्राह्यत्वादिति भावः । ननु मरीचिकाया मिथ्यात्वे तदन्तःपाति-
वीचिकाया इव रूपादिभेदस्यैव मिथ्यात्वे तदन्तःपातिनीलादिभेदस्य
सुतरां मिथ्यात्वं ; (तथा) ग्राहकभेदाभावेऽपि तद्भेदधीः कथञ्चित्समर्थ-
नीयेति शङ्कते - रूपादिभेदमिथ्यात्व इति । असिद्धस्येति-मृगमरीचि-
काया मिथ्यात्वं नाम किं स्वरूपस्य कुत्राप्यभावः ? स त्वसिद्धः । अत्र
 
-