2025-01-21 07:35:51 by ambuda-bot
This page has not been fully proofread.
54
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[जडद्रव्य
अनेकान्तवादानभ्युपगमाच्च । एवं चक्षुरादिभेदाद्रूपादिभेद-
भ्रमस्स्यात् इति । तदपि न । तत्तत्कर्मशक्तिवैचित्र्यात्तत्तदनु-
कूलत्वादिव्यवस्थोपपत्तेः । वस्तुषु च अनुकूलत्वप्रतिकूलत्वे सुख-
दुःखजनकत्वे एव । तथापि सुखदुःखे बुद्धिभेदावेव भव-
द्भिरपि स्वी (क्रियेते) कृतौ । ततश्चात्र विषयभेदाद्धीभेदः तस्मा-
देव च स इति प्रसङ्गस्स्यादिति चेन्न ; विषयभेदस्य स्वकार-
आनन्ददायिनी
तथाचोक्तं--
परित्राट्कामुकशुनामेकस्यामेव योषिति ।
कुणपः कामिनी भक्ष्यमिति तिस्रो विकल्पनाः ॥
इति । अनेकान्तवादः – सप्तभङ्गीवादः । अनुकूलप्रतिकूलत्वयोः
प्रतियोगिभेदेन विरोधाभावान्नेन्द्रियकल्पितत्वं किं तु पारमार्थिकत्व-
मेवेति परिहरति—तदपीति । तार्ह सर्वेषामुभयथा प्रतीतिस्स्यादित्य-
त्राह तत्तदिति । पारमार्थिकत्वं विरोधाभावं चोपपादयति-
1
वस्तुष्विति । बुद्धिभेदावेवेति । अनुकूलविषयिणी बुद्धिः सुखं
प्रतिकूलविषयिणी दुःखं इत्यङ्गीकृतामित्यर्थः । परेषां तु ते तज्जन के
इति विशेषः । तथाच-
अर्थेनैव विशेषो हि निराकारतया धियाम् ।
इति न्यायेन तद्भेदाद्धीभेदः धीभेदात्तद्भेद इत्यन्योन्याश्रय इत्यर्थः ।
उत्पत्तिज्ञप्तयोरन्योन्याश्रयो दोषो वाच्यः । न तावदुत्पत्तावन्योन्याश्रयः ;
अर्थभेदः स्वसामग्रया न तु धीभेदेन ; धीभेदस्त्वर्थभेदेनेति । नापि ज्ञप्तौ ;
धभिदसामग्रयेव विषयभेदज्ञाने कारणं भेदज्ञाने च मनस्सन्निकर्षा-
दिकमिति ज्ञप्तावपि नान्योन्याश्रय इति परिहरति ―न विषयभेदस्येति ।