This page has not been fully proofread.

सर:]
 
द्रव्यसाधनम्
 
सर्वार्थसिद्धिः
 
53
 
भेदोऽपि नापेक्ष्यः । पूर्वपूर्वबुद्धिशक्तिभेदादेव उत्तरोत्तर-
विचित्रभेदोपपत्तेः । ननु स्पर्शनेन्द्रियस्य अज्ञातैर्भागभेदैः
करतलप्रकोष्ठादिवर्तिभिरेकस्यैव दुरालभास्पर्शस्योल्लेखभेदाभ-
वन्तीति चेन्न ; स्पर्शस्यात्र भेदेनानुलेखात् । दुरालभावय-
वानां तु वह्निकणवत् शरीरमाविशतां तद्विकृतिजनकत्वमात्रं ।
प्रदेशभेदेन विकृतितारतम्यं च वह्नयादिभिरिव नानुपपन्नं । ननु
मनुष्यपशुमृगादीन्द्रियभेदाद्भक्ष्यादिषु आनुकूल्यादिवैपरीत्यं
तत्तारतम्यं च दृश्यते ; न च वस्त्वेवानुकूलप्रतिकूल स्वभावं ;
विरोधात् । सर्वेषामविशेषेण सर्वदा उभयविधानुपलम्भात् ।
आनन्ददायिनी
 
रूपा शक्तिर्वासनेत्यर्थः । न च दुरालभास्पर्शस्यैकत्वेऽपि स्पर्शनेन्द्रि-
यप्रदेशभेदैः अज्ञातैरेव करतलप्रकोष्ठादिवृत्तिभिः अनेकधोल्लेखस्य
सर्वैरङ्गीकारात्तन्नयायस्सर्वत्राप्यस्त्विति शङ्कते नन्विति तत्राप्यकास्मिन्
स्पर्शे ग्राहक प्रदेशभेदादनेकधोल्लेखोऽसिद्ध इति परिहरति । नेति-
नन्वेकस्मिन्ननेकधोल्लेखाभावे विकृतितारतम्यं कथमित्यत्राह – प्रदे-
शभेदेनेति—यथा वह्न्यवयवानामुष्णस्पर्शवतां तत्तत्प्रदेशभेदेन
अल्पशो बहुशश्च प्रवेशेऽपि स्पर्श एकरूप एव गृह्यते ; स्पर्शवद्बह्वल्प-
व्यक्तिप्रवेशकृतमेव विकृतितारतम्यं ; तथा दुरालभावयवानां (प्रदेश-
भेदेन) प्रविष्टानामल्पत्वबहुत्वकृतमेव तारतम्यमित्यर्थः । नन्विन्द्रि-
यादिभेदेन तृणादिवस्तुषु प्रतिकूलत्वमनुकूलत्वं च कल्प्यत इति सर्व-
संमतं ; तद्वदत्रापि भवत्विति शङ्कते ——— नन्विति । ननु तत्र द्वयोरपि
पारमार्थिकत्वमस्त्वित्यत्राह ---नचेति । तथा च विनिगमकाभावादुभयं
कल्पितमेवेति भावः ।