This page has not been fully proofread.

52
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
सर्वार्थसिद्धिः
 
दधीरस्तु मण्डूकवसाक्तदृष्टेर्वंशेषु उरगबुद्धिवदिति चेन्न । तत्त-
दोषशक्तया तत्तद्भान्तिभेद सिद्धेः कल्प्याकारस्य क्वचित्सं-
भवाच्च । चक्षुरदिस्वभावा एवात्रापि रूपादिभ्रान्तिहतवो
दोषा इति चेन्न ; सर्वकल्पनाधारे स्वलक्षणेऽपि अनाश्वास-
प्रसङ्गात् । ततश्च इन्द्रियस्वभावभेदोऽपि दुर्वचः ; अधिष्ठाना-
Paramavata चरितार्थत्वात् । तथाच इन्द्रियस्वभाव-
आनन्ददायिनी
 
-
 
रोप्येरन् इत्यर्थः । द्वितीयं पक्षमाशङ्कते — उपाधीति । तत्तद्दोषेति
न चात्रेन्द्रियस्वरूपभेदतद्दोषव्यक्तीनां सिद्धिरिति भावः । ननु प्रती -
तिवैजात्यं सिद्धं कारणादिवैजात्यं साधयतीत्यत्राह - कल्प्याकार-
स्येति । वैजात्यं विषयकृतमिति तद्भान्तिरन्यत्र तत्सिद्धिसापेक्षेति
भावः । ननु चक्षुरादिस्वभावास्सिद्धाः । त एव दोषा अध्यासहे-
तवः ! नचान्यत्राप्रसिद्धस्यारोपानुपपत्तिः; आरोप्यज्ञानस्याहेतुत्वात्,
अन्यथा कदाचिदपि सर्पादर्शिनो मण्डूकवसाञ्जनाक्तनेत्रस्य वंशे
सर्पभ्रमाभावप्रसङ्गादिति शङ्कते चक्षुरादि स्वभावा एवेति ।
चक्षुरादीनामेव दोषत्वे स्वलक्षणस्यापि सिद्धिर्न स्यात् ; दोषजन्यतया
निर्विकल्पस्यापि प्रामाण्याभावप्रसङ्गादिति परिहरति नेति । ततश्चेति-
धर्मधर्मिणोरुभयोरपि कल्पितत्वप्रसङ्गात्तदुभयातिरिक्तपदार्थासंभवाच्च न
पारमार्थिकत्वं ग्राहकरूपभेदस्य वक्तुं शक्यमित्यर्थः । ननु निरधि-
ष्ठानभ्रमानुपपत्तयैव चक्षुरादीनां दोषत्वं प्रतिनियतमित्यत्राह-
अधिष्ठानेति-बुध्यैवेति-योगाचारवत्तत्तत्पदार्थविषयबुध्यैव तेते पदार्थाः
कल्प्यन्तामित्यर्थः । (अधिष्ठानबुद्धिरेवाधिष्ठानमस्तु) कल्पनालाघवाच्च
त्वत्पक्षादप्ययं पक्षो ज्यायानित्याह – तथाचेति । बुद्धिशक्तिः बुद्धि-