This page has not been fully proofread.

सर: ]
 
द्रव्यसाधनम्
 
51
 
प्रसङ्गात् ॥ ८ ॥
 
तत्वमुक्ताकलापः
 
सर्वार्थसिद्धिः
 
हि ग्राह्याकारभेदात् कल्प्यते ; तदसिद्धौ कथं तद्राहकभेद-
क्लृप्ति: ? तदभावे च कथं तत एव ग्राह्याकार भेद क्लृप्तिरिति ?
इह तु मध्ये बुद्धिभेदप्रवेशे चक्रकं । अस्तु कारणभेदादिन्द्रियभेद-
क्लुप्तिरिति चेन्न ; इन्द्रियवै जात्यव्यवस्थापकस्य तस्यानुपल-
म्भात् । तत एव तत्क्लृप्तौ तत्रापि मिथस्संश्रयात् । ननु दर्पणादि-
ग्राहकभेदाद्राह्ये सव्यदक्षिण विपर्यासः । पृथुत्वाणुत्वविमलत्व-
मलिनत्वकल्पना च दृष्टेति चेत् सत्यं; दर्पणादेस्तद्धर्माणां
च भेदेन दृष्टत्वात् तदधीनाध्यासभेदो यथादर्शनमङ्गी-
क्रियते । अत्र तु न तथा, अक्षेषु च ते बहिः कल्पनी -
यानां रूपादीनामसंभवात् । उपाधिज्ञाननिरपेक्षेयं औपाधिकभे-
आनन्ददायिनी
 
कल्प्यत इति—ज्ञायत इत्यर्थः । ग्रहणभेदाद्गाहकभेदः कल्प्यता-
मित्यत्राह —मध्ये इति । बुद्धेर्भेदो न जातिकृतः ; एकाविषयप्रत्यक्षा-
नुमित्योरिव समानव्यवहारप्रसङ्गात् । अपितु विषयकृतः । स च न संभवति;
ग्राहकभेदज्ञानायत्तत्वात् । तथाच इन्द्रियभेदज्ञाने विषयभेदारोपः ततश्च
विज्ञाने भिन्नविषयत्वज्ञानं तत इन्द्रियभेदज्ञानमिति चक्रकमित्यर्थः ।
इन्द्रियेति—तथाविधकारणस्यानुपलम्भात्कल्पनं इन्द्रियवैजात्यन
इन्द्रियवै जात्यं च तेनेत्यन्योन्याश्रय इत्यर्थः । ननु तर्हि व्यञ्जकभेदात्
क्वापि धीभेदो न स्यात् इति शङ्कते — नन्विति । दृष्टान्तदाष्ट-
न्तिकवैषम्येन परिहरति—सत्यमिति । सत्यं ; मालिन्यादयो भेदेन
दृष्टा आरोप्यन्ते रूपादयस्त्वक्षेषु तदन्यत्र वा न गृहीताः कथमा
 
4*