2025-01-21 07:35:50 by ambuda-bot
This page has not been fully proofread.
50
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
तत्वमुक्ताकलापः
नैकत्वेऽप्यक्ष भेदाद्भिदुरमिव मिथस्संश्रयादि-
सर्वार्थसिद्धिः
नियतसामग्रीबोध्यत्वेन ग्रहणाग्रहणयोरुपपत्तेरिति । नन्वस्तु
प्रतिसंधानबलात् द्वीन्द्रियग्राह्यं किंचिन; तत्तु रूपरसाद्या-
त्मकमिति वा तदाश्रय इति वा न मृष्यामहे ; तेषामेवाभावात् ।
एकस्मिन्नेव ग्राहकभेदात्तत्तद्धर्मधीः ; यथा मणिकृपाणद-
र्पणादिव्यञ्जकभेदान्मुखादेरणुत्व पृथुत्वमलिनत्वविमलत्वादिधी :
सव्यदक्षिणविपर्यासश्चेति । तमिमं पक्षं प्रतिक्षिपति नैकत्वेऽ-
प्यक्षभेदाद्भिदुरमिवेति इह तावत् सर्वत्रासिद्धस्य कल्पनानुप-
पत्तिरुक्ता । बाधकान्तरमाह - मिथ इति चक्षुरादिग्राहकवैजात्यं
आनन्ददायिनी
तत्राप्युपकारशक्तिकल्पनमुखेन बहुविप्लवप्रसङ्गात् । तथाच धर्माणां
भेदे युगपद्गृहणनियमोऽपि नास्ति ; ग्राहकाणां परस्परव्यभिचारित्वात् ।
तस्मात् धर्मिणो ग्रहणेऽप्यनिश्चितांशसंभवात् ' को भेदस्स्यादनिश्चित: '
इत्यनुपपन्नं ; रूपस्य ग्रहणेऽपि रसस्याग्रहणोपपत्तेः । रूपादितया विक-
ल्प्यमानस्येत्युक्तं पक्षं दूषयितुमनुभाषते नन्वस्तु प्रतिसन्धानबलादिति ।
एकस्मिन् वस्तुनि रूपरसाद्याकारबुद्धिः कथमित्यत्राह —— एकस्मिन्नेवेति ।
ननु ग्राहकनिष्ठानां धर्माणां ग्राह्ये ग्रहणमस्तु तत्राविद्यमानानां रूपा-
दर्शनां कथं ग्रहणमित्यत्राह - सव्यदक्षिणाविपर्यासश्चेति । इह तावदिति ।
क्वचिदप्यसिद्धस्यारोपासंभवात् ग्राहकभेदान्न भेदधीरित्यर्थः । किञ्च
इन्द्रियभेदः प्रमितो ग्राह्येऽध्यस्यते उत सत्तयेति विकल्प्याद्यं दूषयति--
चक्षुरादीति ।