This page has not been fully proofread.


 
सौनाग, बैजि, सौभव, हर्यक्ष, चन्द्राचार्य, वसुरात प्रभृतीनां निबन्धाः
आर्षप्रबन्धसंक्षेपणव्याकरणप्रमुखविपुलोपकारा व्यालुप्तरूपतया प्राचीन-
निबन्धानूदिता यद्येतैरभ्युपगम्येरन् सत्तया विषयेण गरिम्णा च ; तत्कथम-
परत्रैवंविध एव विश्वासदाऽप्यवष्टम्भकमवगच्छद्भिरप्यविश्वासः क्रियते
इति त एव विमृशन्तु ॥
 
एतत्प्रवन्धप्रवृत्तिः
 
सत्स्वप्येतेषु प्राक्तनेषु प्रबन्धेषु न्यायविस्तरशास्त्रस्य विद्यास्था-
नेषु प्रसिद्धं परिगणनं प्रायस्सर्वेषां तत्र प्रथमपरिचयारम्भसंरम्भं
प्रायः प्रधानार्थाविरोधिभूयः प्रमेयनिरूपणानि च प्रथमानानि अन्ततः
तद्व्याख्यातृभिः स्वमनीषिकया श्रुतिशिरोविरोधेनैव प्रचार्यमाणतां च;
विशिष्टाद्वैतसंप्रदायाचार्यैरपि प्राचीनैः स्वसिद्धान्तप्रमेयानां विप्रकीर्णतया
तत्र तत्र निर्वाहेऽपि तन्निर्वाहस्यापर्याप्ततां ; प्रासङ्गिकमुख्या मुख्यनिरू-
पणीयभूयस्त्वं च परिचिन्तयताः श्रीमद्वेङ्कटनाथदेशिकमणिना स्वसिद्धा-
न्तसिद्धांस्तत्तदर्थान् संग्रहेण प्रतिपादयितुं पर सिद्धान्तसरणिषु प्रमाणादि-
बलाबलादिकं संक्षेपतशिक्षयितुं च निर्दोषपुष्कलार्थस्रग्धरागुम्भितः
तत्वमुक्ताकलापनामा न्यवन्धि निवन्धः । अयमंशः 'आवापोद्वापत स्युः
कति कति' 'शिष्टा जीवेशतत्वप्रमितियुत' इति श्लोकाभ्यां ग्रन्थाव-
तर स्वयमेवोक्तो गुरुणा ॥
 
एवमप्यतिसंक्षिप्तग्रन्थभावग्रहणधारणदौष्कर्यं परिचिन्तयन् सर्वा-
र्थसिद्धिनाम्नीं वृत्तिमपि सानुग्रहं स्वयमेव व्यधादाचार्यः । तदेतदाह
. प्रबन्धारम्भे स्वयमेव ---
 
ताराकल्पे स्फुरति सुधियां तत्वमुक्ताकलापे
 
दूराद्वृत्त्या दुरधिगमतां पश्यतां सर्वसिद्धयै ।
नातिव्यासव्यतिकरवती नातिसंकोचखेदा
 
वृत्तिस्सेयं विशदरुचिरा कल्प्यतेऽस्माभिरेव ॥ इति ॥