This page has not been fully proofread.

48
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
धर्मोपकारशक्तीनां भेदे 'तास्तस्य किं यदि ।
नोपकारस्ततस्तासां तथा स्यादनवस्थितिः ॥
2 * नानोपाध्युपकाराङ्गशक्तभिन्नात्मनो ग्रहे ।
सर्वात्मनोपकार्यस्य को भेदस्स्यादनिश्चितः ॥
आनन्ददायिनी
 
संपत्संपदनुबन्धः ; किन्तु विपदो विपदनुबन्ध
 
[जडद्रव्य
 
एवायमिति
 
प्रतिपादनार्थमिदं पद्यमवतीर्णं । धर्मेति अयमर्थः धर्मविषयो-
पकारार्थं याइशक्तयों मया आपादिताः तासां धर्मिणा भेदोऽ-
भेदा वा ? आद्ये तासामपि शक्तीनां धर्मत्वं वाच्यं धर्मिणश्च तद्वत्त्वं ।
ततश्च तासां शक्तीनां ततो — धर्मिणः उपकारो यदि न; तदा किं
ता अस्य स्युः अन्येषामपि किं न स्युः ? न ह्यनुपकारकस्तद्वा-
नाम । अस्तु तर्हि तत्राप्युपकारश्शक्तिश्च; तत्राह तथा स्यादिति-
 
?
 
-
 
त्रिचतुरकक्ष्याविश्रमे नियामकभावात् । अस्तु तर्हि -
 
स्वभावनियमाभावादुपकारोऽपि दुर्घटः ।
 
इति न्यायेनाभिन्ना इति द्वितीयः पक्षः ; तत्राह — नानोपाधीति
उपकाराङ्गभूता शक्तिः उपकाराङ्गशक्तिः । अयं भावः रूपवत्त्व
 
भावप्रकाशः
 
1 * ' तास्तस्य किं ' 'यदि नोपकारः' इत्यत्र तासां तत
 
उपकारो यदि न तास्तस्य किं इति योजना ।
 
1
 
2 * नानोपाधीति — प्रत्यक्षलक्षणन्यायवार्तिकतात्पर्यटीकायां च
कारिकाशयवर्णनपूर्वकः इत्थं कारिकाक्रमो दृश्यते-
 
यस्यापि नानोपाधेर्धीर्ग्राहिकाऽर्थस्य भेदिनः ।