2025-01-21 07:35:48 by ambuda-bot
This page has not been fully proofread.
46
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
सर्वार्थसिद्धिः
अधिष्ठानस्य कात्स्नर्थेन भानेऽभाने च न भ्रमः ।
भाताभाताकृतिभिदा कथं निर्धर्मके भवेत ॥
बाधकधीच अधिष्ठानातिरिक्ततदसाधारणधर्मविषया ; तत्स्व-
रूप ग्रहस्यारोपासहत्वात् । जिज्ञासा च नात्यन्तानुपलब्धे ; अद-
र्शनात् । न च निःशेषविदिते; वेद्याभावात् । अतस्तद्विषये
विदिताविताकारत्वं सिद्धं । तदिदं सर्वमभिप्रेत्य भिन्नाभिन्नवा-
1
आनन्ददायिनी
कारणासंभवान्न संभवत इत्याह- अधिष्ठानस्य कात्सर्येनेति । निर्धर्म-
कत्वपक्षे अधिष्ठानज्ञानमस्ति न वा ? अस्ति चेत् कात्सर्येन तद्रूपविशेष-
दर्शनादज्ञाताकाराभावान्न भ्रमः । तदभावे सामान्येनापि तज्ज्ञानाभा-
वान्न भ्रम इत्यर्थः । ननु निर्धर्मकत्वेऽपि भाताभाताकारोऽस्तु इत्य-
त्राह - भाताभातेति । अयं भावः - एकस्य वस्तुनो न स्वरूपेण भाता-
भातत्वसंभवः विरोधात्; अपि तु किञ्चिद्धर्मविशिष्टतया ज्ञातत्वं
किंचिद्धर्मविशित्वेनाज्ञातत्वं वाच्यं तच्च निधर्मकस्य न संभवतीत्यर्थः ।
बाधकप्रत्ययबलादपि धर्मसिद्धिरित्याह – वाधकधश्चिति । ननु धर्मस्व-
रूपज्ञानमेव बाधकमस्तु न तावता धर्मधर्मिभाव आवश्यकः इत्य-
त्राह - स्वरूपग्रहस्येति । तथाच कचिदप्यारोपो न स्यादिति भावः ।
जिज्ञासाबलाच्च धर्मधर्मिभावसिद्धिरित्याह- जिज्ञासा चेति । इदं च निर्वि
शेषजिज्ञासाखण्डनसमये शतदूषण्यां प्रपञ्चितमाचार्यैः ; तत्रानुसन्धेयम् ।
विदिताविदिताकारवत्त्वमिति आकारो—–धर्मः । भिन्नाभिन्नवादिभिः-