This page has not been fully proofread.

सर:]
 
द्रव्यसाधनम्
 
सर्वार्थसिद्धिः
 
45
 
तस्य परमार्थस्य त्वयाऽनभ्युपगमात् । दूरे च परि-
माणान्तरवत्तया वस्तुनः स्फुरणात् । अत एव नैकत्वसंख्या ;
दूरासन्नयोरेकानेकत्वबोधे तदेवेति दर्शनात् । अत्र उत्तरेण
* आदिशब्देन संशयविपर्यय (ध) योर्ग्रहणं । - संशयविपर्ययौ
तावत् अधिष्ठानग्रहे विशेषाग्रहात् समानधर्मग्रहाच्च भवतः ।
तथादृष्टिनियमश्च नान्यथयितुं शक्यः ।
 
आनन्ददायिनी
 
काल्पनिकं परिमाणमस्त्वित्यत्राह – दूरे चेति । तथाच दूरान्तिकयोर्भ-
न्नपरिमाणस्फुरणान्न प्रतिज्ञानिर्वाह इति भावः । उक्तन्यायेन संख्याया
अभावात् ; काल्पनिकत्वेऽपि दूरासन्नयोः भिन्नसंख्यास्फुरणान्न ता-
मादायापि निर्वाह इत्याशङ्कयाह - अत एवेति ननु संशयानुरोधा
त्कथं धर्मिसिद्धिरित्यत्राह — संशयविपर्ययौ तावदिति । किञ्चिदाकारे-
णाधिष्ठानज्ञानं किञ्चिदाकारविशिष्टतया च तदज्ञानं तस्मिन् सादृश्य-
ज्ञानं च तत्कारणं । तौ तद्धर्म्यभावे न संभवत इत्यर्थः । तेषां
कारणत्वे नियामकमाह - तथा दृष्टि नियमश्चेति - अन्वयव्यतिरेकदर्श-
नादित्यर्थः । ननु स्तो निर्धर्मकत्वेऽपि संशयविपर्ययावित्याशङ्कय
 
भावप्रकाशः
 
र्मग्रहस्य दुष्परिहरत्वाच्च । अवधारणं विशदग्रहणं संशयोऽविश-
दग्रहणं एककोटिकसंशयोऽप्युपगम्यते इत्युक्तावपि न निस्तार इति
भावेन दूरतादेरिति मूले आदिपदमिति सूचयन् विवृणोति ' * आदि-
शब्देन संशयविपर्ययधियोर्ग्रहणमिति । * संशयविपर्ययौ तावदिति -
एतद्विस्तरश्चान्यत्र द्रष्टव्यः ।