2025-01-21 07:35:48 by ambuda-bot
This page has not been fully proofread.
44
सव्याख्यसर्वार्थासद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
1
सर्वार्थसिद्धिः
विशदग्रहणं न तु न्यूनाधिकदर्शनमात्रं ; तथा सति घटपट -
दर्शने घटमात्रदर्शने च विशदाविशदव्यवहारप्रसङ्गात् । नचात्र
रूपमेवाविशदं विशदं च भाति ; पतिशङ्खादिभ्रमे रूपान्तर-
वत्तया भातस्यापि तथा प्रत्यभिज्ञानात् । नापि परिमाणं;
आनन्ददायिनी
धर्मिसिद्धिरिति भावः । ननु विशदाविशदत्वमधिकन्यूनविषयत्वमेव,
न त्वेकधर्मिणि अधिकन्यूनधर्मविषयत्वं । तथाच न धर्मिसिद्धिरित्यत्राह-
* न तु न्यूनाधिकेत्यादिना । ननु रूपमेव दूरादूरयोरविशदं विशद
च भासतां ; न (च)तु रूप एवाल्पबहुधर्मप्रसङ्गः ; तदाऽपि तदाश्रया -
सिद्धेः इत्यत्राह – नचेति । तथा च पीतशङ्खभ्रमस्थले पूर्वं वेत्यस्य
ग्रहणादिदानीं पीतिमग्रहणात्तयोरभिन्नत्वात् तद्विषयतया प्रत्यभि-
ज्ञाया अनिर्वाहादुभयानुयायिधर्मिसिद्धिरिति भावः । परिमाणस्य
द्वीन्द्रियग्राह्यतया
1
प्रत्यभिज्ञाविषयत्वमस्त्वित्यत्राह
भावप्रकाशः
--
नापीति
* न तु न्यूनाधिकदर्शनमात्रमिति —— अधिक संख्यवस्तुदर्शनं
विशदं; न्यून संख्य वस्तुदर्शनमविशदमित्यपि न संभवतीत्यर्थः । एतेन
निरन्तराधिकवस्तुदर्शनं विशदमित्युक्तावपि न निस्तार इति सिद्धं ।
अधिकावयवानां दर्शनेऽपि तद्धर्माणामग्रहे न्यूनावयवानां ग्रहेऽपि अधि-
कतद्धर्मग्रहेच विशदाविशदव्यहारप्रसङ्गात् । बौद्धमते एकैकावयवस्य
स्वलक्षणत्वेन परमार्थत्वेन अवयवसन्तानस्य विशदाविशदज्ञानविषय-
त्वाङ्गीकारे परमार्थत्वप्रसङ्गात् । सिद्धान्ते विलक्षणसंयोगावीशिष्टानामे-
वावयविप्रत्ययविषयताया व्यवस्थापायष्यमाणत्वात् । तत्रापि नानाध-